वैशम्पायनः-
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम्
युधिष्ठिरः-
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः
विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता
गोभिस्समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः
अहो धन्यो नृलोकोऽयं समाग्याश्च नरा भुवि
यत्र कर्मेदृशं सम्यक्द्विजाग्र्यैः कृतमच्युत
वैशम्पायनः-
कथयन्तौ कथां तात तावच्युतयुधिष्ठिरौ
जग्मतुर्यत्र गाङ्गेयश्शरतल्पगतः प्रभुः
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम्
स्वरश्मिमालासंवीतं सायंसूर्यसमप्रभम्
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम्
देशे परमधर्मिष्ठे नदीमोघवतीमनु
दूरादेव तमालोक्य कृष्णो राजा च धर्मजः
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः
अवस्कन्द्या च वाहेभ्यस्संयम्य प्रचलं मनः
एकीकृत्येन्द्रियग्राममुपतम्थुर्महामुनीन्
अभिवाद्य तु गोविन्दस्सात्यकिस्ते च कौरवाः
व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे
तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुपुङ्गवः
परिवार्य ततस्सर्वे निषेदुः पुरुषर्षभाः
ततो निशाम्य गाङ्गेयं शाम्यमानमिवानलम्
किञ्चिद्दीनमना भीष्ममितिहोवाच केशवः
श्रीभगवान्-
कच्चिज्ज्ञानानि ते भीष्म प्रसन्नानि यथापुरम्
कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर
शराभिघातदुःखार्तं कच्चिद्गात्रं न दूयते
मानसादपि दुःखाद्धि शारीरं बलवत्तरम्
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो
शन्तनोर्धर्मशीलस्य नन्वेतदिह कारणम्
सुमूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम्
किम्पुनश्शरसङ्घातैश्चितस्य तव पार्थिव
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ
भवानुपदिशेच्छ्रेयो देवानामपि भारत
यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविहाहृतम्
संसारस्येह भूतानां धर्मस्य च फलोदयः
विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः
न हि राज्ये स्थितं काञ्चित्समग्राङ्गमरोगिणम्
स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम्
ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिवम्
सत्यधर्मान्महावीर्याच्छूराद्धर्मैकतत्परात्
मृत्युमावार्य तपसा शरप्रस्तरशायिनम्
त्रिवर्गप्रवणं कञ्चिन्न च तातानुशुश्रुम
सत्ये तपसि दाने च यज्ञाधिकरणे तथा
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम्
महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम
त्वं हि देवान्सगन्धर्वानसुरान्ससुरासुरमानवान्
शक्त एकरथेनैव विजेतुं नात्र संशयः
त्वं हि भीष्म महाबाहो वसूनां वासवोपमः
नित्यं विप्रैस्समाख्यातो नवमोऽनवमो गुणैः
अहं च त्वाऽभिजानामि स्वयं पुरुषसत्तम
तपसा हि भवाञ्शक्तस्स्रष्टुं लोकांश्चराचरान्
त्रिदशेष्वभिविख्यातस्त्वं शक्त्या सुमहाबलः
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः
भवतो हि गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित्
त्वं हि सर्वगुणैर्भीष्म देवानप्यतिरिच्यसे
तदस्य तप्यमानस्य ज्ञातीनां सङ्क्षयेण वै
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद
ये हि धर्मास्समाख्याताश्चातुर्वर्ण्यस्य भारत
चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव
चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्राश्च भारत
योगे साङ्ख्ये च नियता ये च धर्मास्सनातनाः
चातुर्वर्ण्यनयैश्चैको न स धर्मो विरुध्यते
सेव्यमानस्सवैयाख्यो गाङ्गेय विदितस्तव
प्रतिलोमप्रसूतानां म्लेच्छानां चैव यस्स्मृतः
देशजातिकुलानां च जानीषे धर्मलक्षणम्
वेदोक्तो यश्च शिष्टोक्तस्स चैव विदितस्तव
प्रवृत्तश्च निवृत्तश्च स चापि विदितस्तव
इतिहासपुराणार्थाः कार्त्स्न्येन विदिताः प्रभो
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम्
ये च केचन लोकेऽस्मिन्नर्थास्संशयकारकाः
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभः
स पाण्डवेयस्य मनस्समुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया
भवद्विधा ह्युत्तमबुद्धिर्विस्तरा विमुह्यमानस्य जनस्य शान्तये