श्रीभगवान्-
शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम्
महर्षीणां कथयतां कारणं तस्य जन्म च
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः
सम्भूता राजवंशेषु ये भूयो भारते हताः
जह्नोरुजह्नुस्तनयो बल्लभस्तस्य चात्मजः
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः
उग्रं तपस्समातिष्ठत्सहस्राक्षसमो विभुः
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः
समर्थं पुत्रजनने स्वयमेवैत्य भारत
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः
तस्य कन्याऽभवद्राजन्नाम्ना सत्यवती प्रभो
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः
ततस्तया हि कौन्तेय भार्गवः कुरुपुङ्गव
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च
आहूय चाह तां भार्यामृचीको भार्गवस्तदा
ऋचीकः-
उपयोज्यश्चरुरयं त्वया मात्रा च भामिनी
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः
तवापि पुत्रं कल्याणि श्रुतिमन्तं शमात्मकम्
तपोन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति
श्रीभगवान्-
इत्येवमुक्त्वा तां भार्यां ऋचीको भृगुनन्दनः
तपस्यभिरतो धीमाञ्जगामारण्यमेव च
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः
गाधिः सदारः सम्प्राप्त ऋचीकस्याश्रमं प्रति
चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा
भर्त्रा दत्तं प्रसन्नेन मात्रे हृष्टा न्यवेदयत्
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ
तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा
धारयामास दीप्तेन वपुषा घोरदर्शनम्
तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन भारत
अब्रवीद्भृगुशार्दूलस्स्वां भार्यां देवरूपिणीम्
ऋचीकः-
मात्राऽसि व्यंसिता भद्रे चरुव्यत्यासहेतुना
तस्माज्जनिष्यते पुत्रः क्रूरकर्मा महाबलः
जनयिष्यति माता ते ब्रह्मभूतं तपोधनम्
विश्वं हि ब्रह्म सुमहच्चरौ तव समर्पतम्
श्रीभगवान्-
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्
सत्यवती-
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः
ब्राह्मणापशदं पुत्रं प्राप्स्यसीति महामुने
ऋचीकः-
नैष सङ्कल्पितः कामो मया भद्रे तथा त्वयि
उग्रकर्मा भवेत्पुत्रश्चरुव्यत्यासहेतुना
सत्यवत्युवाच
इच्छल्ँलोकानपि मुने सृजेथाः किं पुनर्मम
शमात्मकमृजुं पुत्रं लभेयं तपतां वरम्
ऋचीकः-
नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने
सत्यवती-
काममीदृग्भवेत्पौत्रो मा मैवं तनयः प्रभो
शमात्मकमृजुं पुत्रं लभेयं जपतां वर
ऋचीकः-
पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति
श्रीभगवान्-
ततस्सत्यवती पुत्रं जनयामास भार्गवम्
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम्
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम्
ऋचीको जनयामास जमदग्निं तपोनिधिम्
सोऽपि पुत्रं ह्यजनयज्जमदग्निस्सुदारुणम्
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः
दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्
अजयत्पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्
स बाह्वस्त्रबलेनाजौ धर्मेण परमेण च
तृषितेन च कौरव्य भिक्षितश्चित्रभानुना
सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये
ग्रामान्पुराणि राष्ट्राणि पट्टणान्यटवीस्तथा
जज्वाल तस्य बाणेद्धचित्रभानुर्दिधक्षया
स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः
ददाह कार्तवीर्यस्य शैलानपि धरामपि
स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत्
ददाह पवनेनेद्धश्चित्रभानुस्सहैहयः
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत
दग्धे श्रमे महाबाहो कार्तवीर्येण वीर्यवान्
वरुणात्मजः-
त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम
दग्धं तस्माद्रणे रामो बाहूंस्ते च्छेत्स्यतेऽर्जुन
श्रीभगवान्-
अर्जुनस्तु महातेजा बली नित्यं शमात्मकः
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत
तस्य पुत्रास्सुबलिनश्शापेनासन्पितुर्वधे
निमित्तमवलिप्तास्ते नृशंसाश्चैव नित्यदा
जमदग्नेस्तु धेन्वास्ते वत्समानिन्युरच्युत
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः
ततोऽर्जुनस्य बाहून्स चिच्छेद रुषितोऽनघ
प्रत्याजहार तं वत्सं जामदग्न्यस्स्वमाश्रमम्
अर्जुनस्य सुतास्तेऽथ सम्भूयाबुद्धयस्तदा
गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः
अपातयन्त भल्लाग्रैश्शिरः कायान्नराधिप
समित्कुशार्थं रामस्य निर्यातस्य महात्मनः
प्रत्यक्षं राममातुश्च तथैवाश्रमवासिनाम्
श्रुत्वा रामस्तमर्थं च क्रुद्धः कालानलोपमः
धनुर्वेदेऽद्वितीयो हि दिव्यास्त्रैस्समलङ्कृतः
चन्द्रबिम्बार्धसङ्काशं परशुं गृह्य भार्गवः
ततः पितृवधामर्षाद्रामः परममन्युमान्
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत
ततस्स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च च
स हैहयसहस्राणि हत्वा परममन्युमान्
महीं सागरपर्यन्तां चकार रुधिरोक्षिताम्
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम्
कृपया परयाऽऽविष्टो वनमेव जगाम ह
ततो वर्षसहस्रेषु समतीतेषु केषुचित्
कोपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि
परावसुः-
ये ते ययातिपतने यज्ञे सन्तस्समागताः
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः
श्रीभगावन्-
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता
परावसोस्तु तच्छ्रुत्वा शस्त्रं जग्राह भार्गवः
ततो ये क्षत्रिया राजञ्शतशस्तेन वर्जिताः
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्
स पुनस्ताञ्जघानाशु बालानपि नराधिप
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा
जातं जातं स गर्भं तु पुनरेव जघान ह
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः
त्रिस्सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः
स क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः
स्रुक्प्रग्रहवता राजञ्छ्रीमान्वाक्यमथाब्रवीत्
काश्यपः-
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने
न ते मद्विषये राम वस्तव्यमिह कर्हिचित्
पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया
पुनरस्याः पृथिव्या हि दत्त्वाऽऽदातुमनीश्वरः
श्रीभगवान्-
ततश्शूर्पाकरोद्देशं सागरस्तस्य निर्ममे
सन्त्रासाज्जामदग्न्यस्य सोऽपरान्तमहीतलम्
कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम्
कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम्
तत्र शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ
अराजके जीवलोके दुर्बला बलवत्तरैः
वध्यन्ते न हि वित्तेषु प्रभुत्वमिह कस्यचित्
ब्राह्मणा मद्यपाः केचिन्मूर्खाः पण्डितमानिनः
ब्राह्मणाः क्षत्रिया वैश्याश्शृद्राश्चोत्पथगामिनः
परस्परं समाश्रित्य घातयन्त्यपथस्थिताः
स्वधर्मं ब्राह्मणास्त्यक्त्वा पाषण्डत्वं समाश्रिताः
चौरिकानृतमायाश्च सर्वे चैव प्रकुर्वते
स्वधर्मस्थान्द्विजान्हत्वा तथाऽऽश्रमनिवासिनः
तान्सर्वान्घातयन्ति स्म दुराचारास्सुनिर्भयाः
वैश्यास्सत्पथसंस्थाश्च शूद्रा ये चैव धार्मिकाः
यज्ञाध्ययनशीलांश्च आश्रमस्थांस्तपस्विनः
गोबालवृद्धनारीणां नाशं कुर्वन्ति चापरे
आन्वीक्षकी त्रयी वार्ता दण्डनीतिः प्रवर्तते
व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः
अधरोत्तरापचारेण म्लेच्छभूताश्च सर्वशः
ततः कालेन पृथिवी प्रविवेश रसातलम्
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः
ऊरुणा धारयामास कश्यपः पृथिवीं ततः
तां दृष्ट्वा द्रवतीं तत्र सन्त्रासात्स महामनाः
निमज्जन्तीं ततो राजंस्तेनोर्वीति मही स्मृता
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः
पृथिवी-
सन्ति ब्रह्मन्मया गुप्ता नृपु क्षत्रियपुङ्गवाः
हैहयानां कुले जातास्ते संरक्षन्तु महामुने
अस्ति कौरवदायादो विदूरथसुतः प्रभो
ऋक्षैस्संवर्धितो विप्र ऋक्षवत्यथ पर्वते
तथाऽनुकम्पमानेन यज्वनाऽनन्यतेजसा
पराशरेण दायादस्सौदासस्याभिरक्षितः
सर्वकर्माणि कुरुते तस्यर्षे शूद्रवद्धि सः
सर्वकर्मेत्यभिख्यातस्स मां रक्षतु पार्थिवः
शिबिपुत्रो महातेजा गोपतिर्नाम नामतः
वने संरक्षितो गोभिस्सोऽभिरक्षतु मां मुने
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः
वत्सैस्संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः
दधिवाहनपुत्रस्तु पौत्रो दिविरथस्य च
अङ्गस्स गौतमेनापि गङ्गाकूलेऽभिरक्षितः
बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः
मरुत्तस्यान्ववाये तु चतुर्वर्षा नृपा स्त्रियः
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः
एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः
सम्यङ्भामभिरक्षन्तु ततस्स्थास्यामि निश्चला
एतेषां पितरश्चैव तथैव च पितामहाः
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्
तेषां शोकप्रणाशो वै मया कार्या न संशयः
श्रीभगवान्-
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीरसम्मतान्
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः
एवमेतत्पुरावृत्तं यन्मां पृच्छसि पाण्डव
वैशम्पायनः-
एवं ब्रुवंस्तं च यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम्
रथेन तेनाशु ययौ यथाऽर्को विशन्प्रभाभिर्भगवांस्त्रिलोकीम्