जनमेजयः-
राज्यं प्राप्य महातेजा धर्मपुत्रो युधिष्ठिरः
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि
वैशम्पायनः-
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयाऽनघ
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः
प्राप्य राज्यं महातेजाः कुन्तीपुत्रो युधिष्ठिरः
वर्णान्संस्थापयामास नयेन विनयेन च
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्
सहस्रनिष्कैरेकैकं तर्पयामास पाण्डवः
तथाऽनुजीविनो भृत्यान्संश्रितानतिथीनपि
कामैस्सन्तर्पयामास कृपणांस्तार्किकानपि
पुरोहिताय धौम्याय प्रादादयुतशस्स गाः
धनं सुवर्णं रजतं वासांसि विविधानि च
कृपाय च महाराज पितृवत्तमतर्पयत्
विदुराय महातेजाः पूजां चक्रे यतव्रतः
भक्ष्यान्नपानैर्विविधैर्वासोभिश्शयनासनैः
सर्वान्सन्तोषयामास संश्रितान्ददतां वरः
लब्धप्रशमनं कृत्वा स राजा राजसत्तम
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च
निवेश्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः
तथा सर्वं स नगरं प्रसाद्य जनमेजय
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः
ततो महति पर्यङ्के मणिकाञ्चनभूषिते
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम्
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्
पीतकौशेयवसनं हैमेनोपहितं मणिम्
कौस्तुभेनाप्युरस्स्थेन मणिनाऽभिविराजितम्
उद्यतेवोदयं शैलं सूर्येणाप्तं किरीटिनम्
नौपम्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन
सोऽभिगम्य महात्मानं विष्णुं पुरुषसत्तमम्
उवाच मधुरं राजा स्मितपूर्वमिदं तदा
युधिष्ठिरः-
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत
तव ह्याश्रित्य देवी बुद्धिं बुद्धिमतां वर
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता
भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम
जयं प्राप्ता यशश्चाग्र्यं न च धर्मच्युता वयम्
वैशम्पायनः-
तं तथा भाषमाणं तु धर्मराजमरिन्दमम्
नोवाच भगवान्किञ्चिद्ध्यानमेवान्वपद्यत