वैशम्पायनः-
ततो विसर्जयामास सर्वास्ताः प्रकृतीर्नृपः
विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि ते
ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्
सान्त्वयन्नब्रवीच्छ्रीमानर्जुनं यमजौ तथा
युधिष्ठिरः-
शत्रुभिर्विविधैश्शस्त्रैः क्षतदेहा महारणे
श्रान्ता भवन्तस्सुभृशं तापिताश्शोकमन्युभिः
अरण्ये दुःखवसतिर्मत्कृते भरतर्षभाः
भवद्भिरनुभूता च यथा कापुरुषैस्तथा
यथासुखं यथाजोषं जयोऽयमनुभूयताम्
विश्रान्ताँल्लब्धविश्वासाञ्श्वस्समेताऽस्मि वः पुनः
वैशम्पायनः-
ततो दुर्योधनगृहं प्रासादैरुपशोभितम्
बहुरत्नसमाकीर्णं दासीदाससमाकुलम्
धृतराष्ट्राभ्यनुज्ञातो भ्रात्रा दत्तं वृकोदरः
प्रतिपेदे महाबाहुर्मन्दिरं मघवानिव
यथा दुर्योधनगृहं तथा दुश्शासनस्य तु
प्रासादमालासंयुक्तं हेमतोरणसयुतम्
दासीदाससुसम्पूर्णं प्रभूतधनधान्यवत्
प्रतिपेदे महाबाहुरर्जुनो राजशासनात्
दुर्मर्षणस्य भवनं दुश्शासनगृहाद्वरम्
कुबेरभवनप्रख्यं मणिहेमविभूषितम्
नकुलाय महार्हाय कर्शिताय महाहवे
ददौ प्रीतो महाबाहुर्धर्मसूनुर्युधिष्ठिरः
दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषणम्
पूर्णपद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम्
प्रददौ सहदेवाय सन्ततं प्रियकारिणे
मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा
युयुत्सुर्विदुरश्चैव सञ्जयश्च महामतिः
सुधर्मा चैव धौम्यश्च यथा स्वाञ्जग्मुरालयान्
सह सात्यकिना शौरिरर्जुनस्य निवेशनम्
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव
तत्र भक्ष्यान्नपानैस्ते समुपेतास्सुखोषिताः
सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम्