वैशम्पायनः-
प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम्
श्रुत्वा युधिष्ठिरो राजा उत्तरं प्रत्यभाषत
युधिष्ठिरः-
धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः
तथ्यान्वा यदि वाऽतथ्यान्गुणानाहुस्समागताः
अनुग्राह्या वयं नूनं भवतामिति मे मतिः
यत्रैवं गुणसम्पन्नानस्मान्ब्रूथ विमत्सराः
धृतराष्ट्रो महाराजः पिता नो दैवतं परम्
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा
यदि वाऽहमनुग्राह्यो भवतां सुहृदां तथा
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ
एष नाथो हि जगतो भवतां च मया सह
अस्य प्रसादे पृथिवी पाण्डवास्सर्व एव ह
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम
वैशम्पायनः-
अनुज्ञाप्य च राजानं यथेष्टं गम्यतामिति
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः
यौवराज्येन कौरव्यं भीमसेनमयोजयत्
मन्त्रे च निश्चये तस्मिन्षाड्गुण्यस्य विचिन्तने
विदुरं बुद्धिसम्पन्नं प्रीतिमान्स समादिशत्
कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने
सञ्जयं योजयामास वृद्धं वृद्धैर्गुणैर्युतम्
बलस्य परिमाणे च भक्तवेतनयोस्तथा
नकुलं व्यादिशद्राजा कर्मणां चान्ववेक्षणे
परचक्रोपरोधे च दृप्तानामवमर्दने
युधिष्ठिरो महाराज फल्गुनं व्यादिदेश ह
द्विजानां देवकार्येषु कार्येष्वन्येषु चैव ह
धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परन्तपः
सहदेवं समीपस्थं नित्यमेव समादिशत्
तने गोप्यो हि नृपतिस्सर्वावस्थो विशां पते
यान्यानमात्यान्योग्यांश्च येषु येष्वथ कर्मसु
तांस्तांश्च तेषु युयुजे प्रीयमाणो महीपतिः
विदुरं सञ्जयं चैव युयुत्सुं च महामतिः
अब्रवीत्परमप्रीतो धर्मात्मा धर्मवत्सलः
युधिष्ठिरः-
उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथा मम
पौरजानपदानां च यानि कार्याणि नित्यशः
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः