वैशम्पायनः-
प्रवेशनं तु पार्थानां जनानां पुरवासिनाम्
दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यपि
स राजमार्गश्शुशुभे समलङ्कृतचत्वरः
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः
गृहाणि राजमार्गेषु रत्नवन्ति बहून्यपि
प्राकम्पन्तीव भारेण स्त्रीणां पूर्णानि सर्वशः
ताश्शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ
स्त्रियः-
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्
उपतिष्ठसि कल्याणि महर्षिमिव गौतमी
तव कर्माण्यमोघानि व्रतचर्या च भामिनि
वैशम्पायनः-
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः
प्रशंसावचनैस्तासां मिथश्शब्दैश्च भारत
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम्
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः
अलङ्कृतं शोभमानमुपायाद्राजवेश्म ह
ततः प्रकृतयस्सर्वाः पौरा जानपदास्तदा
ऊचुश्श्रोत्रसुखा वाचस्समुपेत्य ततस्ततः
जनाः-
दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च
भव नस्त्वं महाराज राज्याय शरदां शतम्
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप
वैशम्पायनः-
एवं राजकुलद्वारि मङ्गलैरभिपूजितः
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः
प्रविश्य भवनं राजा देवराजगृहोपमम्
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत्
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च
पूजयामास गन्धैश्च माल्यै रन्नैश्च सर्वशः
निश्चक्राम ततश्श्रीमान्पुनरेव महायशाः
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान्
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा
तान्सुसम्पूजयामास कौन्तेयो विधिवद्द्विजान्
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च
प्रविवेश सभां राजा सुधर्मां वासवो यथा
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा
गाभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत
सुहृदां हर्षजननः पुण्यश्श्रुतिसुखावहः
हंसवन्नेदुषां राजन्द्विजानां तत्र भारत
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा
ततो दुन्दुभिनिर्घोषश्शङ्खानां च रवो मनोरमः
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप
निश्शब्दे च स्थिते तत्र ततो विप्रजने पुनः
राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत्
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः
साङ्ख्यश्शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः
वृतस्सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः
परस्सहस्रै राजेन्द्र तपोनियमसंस्थितैः
सुदुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम्
चार्वाकः-
इमे प्राहुर्द्विजास्सर्वे समारोप्य वचो मयि
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसङ्क्षयम्
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्
वैशम्पायनः-
इति ते वै द्विजाश्श्रुत्वा तस्य दुष्टस्य रक्षसः
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः
ततस्ते ब्राह्मणास्सर्वे स च राजा युधिष्ठिरः
व्रीडिताः परमोद्विग्रास्तूष्णीमासन्विशाम्पते
युधिष्ठिरः-
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः
प्रत्यासन्नव्यसनिनं न मां बाधितुमर्हथ
वैशम्पायनः-
ततो राजन्ब्राह्माणास्ते सर्व एव विशां पते
ऊचुर्नैष द्विजोऽस्माकमन्यस्तु तव पार्थिव
जज्ञुश्चैनं महात्मानस्ततस्तं ज्ञानचक्षुषा
ब्राह्मणा वेदविद्वांसस्तपसा विमलीकृताः
ब्राह्मणाः-
एष दुर्योधनसखा विश्रुतो ब्रह्मराक्षसः
परिव्राजकरूपेण हितं तस्य चिकीर्षति
न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम्
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिस्सह
वैशम्पायनः-
ततस्ते ब्राह्मणास्सर्वे हुङ्कारैः क्रोधमूर्च्छिताः
निर्भर्त्सयन्तश्शुचयो निजघ्नुः पापराक्षसम्
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्
राजा च हर्षमापेदे पाण्डवस्ससुहृज्जनः
ततस्तत्र तु राजानं तिष्ठन्ते भ्रातृभिः सह
उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः
श्रीभगवान्-
ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयास्सदा मम
एते भूमिचरा देवा वाग्विषास्सुप्रसादकाः
पुरा कृतयुगे राजंश्चार्वाको नाम राक्षसः
तपस्तेपे महाबाहो बदर्यां बहुवार्षिकम्
वरेण च्छन्द्यमानश्च ब्रह्मणा च पुनः पुनः
अभयं सर्वभूतेभ्यो वरयामास भारत
द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम्
अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः
स तु लब्धवरः पापो देवानमितविक्रमः
राक्षसस्तापयामास तीव्रकर्मा महाबलः
ततो देवास्समेत्याथ ब्रह्माणमिदमब्रुवन्
वधाय रक्षसस्तस्य बलविप्रकृतास्तदा
तानुवाचव्ययो देवान्विहितं तत्र वै मया
यथाऽस्य भविता मृत्युरचिरेण दिवौकसः
राजा दुर्योधनो नाम सखाऽस्य भविता नृपः
तत्स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः
धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति
स एष निहतश्शेते ब्रह्मदण्डेन राक्षसः
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ
हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव
स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः
स त्वमातिष्ठ कार्याणि मा ते भूद्बुद्धिरन्यथा
शत्रूञ्जहि प्रजा रक्ष द्विजांश्च परिपूजय