युधिष्ठिरः-
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्
आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम्
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता
कौतूहलानुप्रवणा हर्षं जनयतीव मे
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः
वैशम्पायनः-
तमुवाच महाराज व्यासो वेदविदां वरः
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम्
व्यासः-
श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप
प्रेहि भीष्मं महाबाहो कुरुवृद्धं पितामहम्
स ते धर्मरहस्येषु संशयान्मनसि स्थितान्
छेत्ता भागीरथीपुत्रस्सर्वज्ञस्सर्वधर्मवित्
जनयामास यं देवी दिव्या त्रिपथगा नदी
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान्
बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः
तोषयित्वोपचारेण राजनीतिमधीतवान्
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः
स च धर्मं सवैयाघ्रं प्राप्तवान्कुरुसत्तमः
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान्
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान्
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुषर्षभः
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि
तथाऽनपत्यस्य सतः पुण्यलोका दिवि श्रुताः
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः
यस्य नाविदितं किञ्चिज्ज्ञेयं ज्ञेयेषु दृश्यते
स ते वक्ष्यति धर्मज्ञो धर्मसूक्ष्मधर्मार्थतत्त्ववित्
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित्
वैशम्पायनः-
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्
युधिष्ठिरः-
वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम्
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः
घातयित्वा छलेनाजौ तमेवाजिह्मयोधिनम्
उपसम्प्रष्टुमर्हामि तमहं केन हेतुना
वैशम्पायनः-
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया
पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः
श्रीभगवान्-
नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः
पर्जन्यमिव घर्मान्ते नाथमाना उपासते
हतशिष्टाश्च राजानः कृत्स्नं चैतत्समागतम्
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः
सुहृदामस्मदादीनां द्रौपद्यांश्च परन्तप
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु
वैशम्पायनः-
एवमुक्तस्स कृष्णेन राजा राजीवलोचनः
हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्
द्वैपायनेन च तथा देवस्थानेन जिष्णुना
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः
व्यजहान्मानसं दुःखं सन्तापं च महायशाः
श्रुतवाक्यश्श्रुतनिधिश्श्रुतश्राव्यविशारदः
व्यवस्य मनसा शान्तिमगमत्पाण्डुनन्दनः
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः
धृतराष्ट्रं पुरस्कृत्य पुरं स्म प्रविवेश ह
प्रविविक्षुस्स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः
ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम्
युक्तं षोडशभिस्त्वश्वैः पाण्डुरैश्शुभलक्षणैः
मन्त्रैरभ्यर्चितं पुण्यैस्स्तूयमानश्च वन्दिभिः
आरुरोह यथा देवस्सोमोऽमृतमयं रथम्
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत्
ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि
शुशुभे तारके राजन्सिताभ्रमिवाम्बरे
चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा
चन्द्ररश्मिप्रयभे दिव्ये माद्रीपुत्रावलङ्कृते
ते पञ्च रथमास्थाय भ्रातरस्समलङ्कृताः
भूतानीव समस्तानि राजन्ददृशिरे तदा
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम्
रथं हेममयं शुभ्रं शैब्यसुग्रीवयोजितम्
सह सात्यकिना कृष्णस्समास्थायान्वयात्कुरून्
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ
कुरुस्त्रियश्च तास्सर्वाः कुन्ती कृष्णा च माधवी
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः
ततो रथाश्च बहुला नागाश्व ममलङ्कृताः
पादाताश्च हयाश्चान्ये पृष्ठतस्समनुव्रजन्
ततो वैतालिकैस्सूतैर्मागधैश्च सुभाषितैः
स्तूयमानो ययौ राजा नगरं नागसाह्वयम्
तत्प्रयाणं माहाराज बभूवाप्रतिमं भुवि
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम्
पाणडुरेण च मान्येन पताकाभिश्च वेदिभिः
नगरं राजमार्गश्च यथावत्समलङ्कृतम्
अभियाने तु पार्थस्य नरैर्नगरवासिभिः
संवृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः
अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम्
कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः
अन्यास्सुमनसश्चापि स्थापितास्तत्र तत्र ह
तथा स्वलङ्कृतं द्वारं नगरं पाण्डुनन्दनः
स्तूयमानश्शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः