युधिष्ठिरः-
किं भक्ष्यं चाप्यभक्ष्यं च किञ्च देयं प्रशस्यते
किञ्च पात्रमपात्रं वा तन्मे ब्रूहि पितामह
व्यासः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः
महर्षयो व्रतपरास्समागम्य पुरा विभुम्
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्
महर्षयः-
व्यासः-
कथम्मन्नं कथं दानं गम्यागम्याः कथं स्त्रियः
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते
तैरेवमुक्तो भगवान्मनुस्स्वायम्भुवोऽब्रवीत्
मनुः-
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः
अदत्तस्यानुपादानं दानमध्ययनं तपः
अहिंसा सत्यमक्रोधं क्षमा धर्मस्य लक्षणम्
स चैव धर्मस्सोऽधर्मो देशकाले प्रतिष्ठितः
आदानमनृतं हिंसा धर्मो ह्यात्यन्तिकस्स्मृतः
द्विविधावप्युभावेतौ धर्माधर्मौ विजानताम्
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च
एतयोश्चोभयोस्स्यातां शुभाशुभतया तथा
दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च च
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम्
ऊर्ध्वं भवति सन्देहादिहादिष्टार्थमेव वा
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये
अनुष्णा मृत्तिका चैव तथा चैव पिपीलिकाः
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये
भासा हंसास्सुपर्णाश्च चक्रवाकाः प्लवा वृकाः
मद्गवश्चैव गृधाश्च काकोलूकास्तथैव च
जातिश्रेण्यधिवासानां कुलधर्मांश्च शाश्वतान्
क्रव्यादा दंष्ट्रिणस्सर्वे चतुष्पात्पक्षिणश्च ये
वर्जयेन्न हि ये धर्मं तेषां धर्मो न विद्यते
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः
एडकानां मृगोष्ट्राणां सूकराणां गवामपि
मानुषीणां खरीणां च न पिबेद्ब्राह्मणः पयः
प्रेतान्नं सूतकान्नं च यच्च किञ्चिदनिर्दशम्
अभोज्यं चाप्यभक्ष्यं च ब्राह्मणैर्गृहमेधिभिः
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये
परिवित्तीनामपुंसां च पुंसि द्यूतविदां तथा
वामहस्ताहृतं चान्नं शुष्कं पर्युषितं च यत्
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत्
पिष्टमांसेक्षुशाकानामाविकाजापयस्तथा
सक्तु धानाः करम्भाश्च नोपभोज्याश्चिरं स्थिताः
पायसं कृसरं मांसमपूपं च वृथा कृतम्
अभोज्यं चाप्यभक्ष्यं च ब्राह्मणैर्गृहमेधिभिः
देवानृषीन्मनुष्यांश्च पितॄन्भृत्यांश्च देवताः
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत्
एवंवृत्तः प्रियैर्दारैस्संवसन्धर्ममाप्नुयात्
न दद्याद्यशसे दानं न भयान्नोपकारिणे
न नृत्यगीतशीलेषु हासकेषु च धर्मतः
न मत्ते चैव नोन्मत्ते न स्तेने न नपुंसके
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने
न दुर्जने दौष्कुले वा व्रतैर्यो ये न संस्कृतः
अश्रोत्रिये च यद्दानं ब्राह्मणे ब्रह्मवर्जिते
असम्यक्चैव यद्दानमसम्यक् च प्रतिग्रहः
उभयोस्स्यादनर्थाय दातुरादातुरेव च
यथा खदिरमालम्ब्य शिलां वाऽप्यर्णवं तरन्
मज्जेत मज्जतां तद्वद्दाता यश्च प्रतीच्छति
काष्ठैरार्द्रैर्यथा वह्निरवदीर्णो न दीप्यते
तपस्स्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही
कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्
निर्मन्त्रो निर्वृतो यस्स्यादशास्त्रज्ञोऽनसूयकः
अनुक्रोशात्प्रदातव्यं हीनेष्वेवं नरेषु च
न वा देयमनुक्रोशाद्दीनायापगुणाय तु
आप्ताचरित इत्येव धर्म इत्येव वा पुनः
निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते
न फलेत्पात्रदोषेण न चात्रास्ति विचारणा
यथा दारुमयो हस्ती यथा चर्ममयो मृगः
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा
ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ
देवतानां पितॄणां च हव्यकव्यविनाशकः
सर्वथाऽर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति
एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर
समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ