युधिष्ठिरः-
कानि कर्माणि कृत्वेह प्रायश्चित्तीयते नरः
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह
व्यासः-
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्
प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन्
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि
परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः
दिधिषूपतिस्तथा यस्स्यादग्रेदिधिषुरेव च
अवकीर्णी तथा यश्च द्विजातिवधकारकः
अतीर्थे ब्राह्मणे त्यागी तीर्थे चाप्रतिपादकः
ग्रामयाजी च कौन्तेय राज्ञो वा परिविक्रयी
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी
अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य च भक्षणम्
शरणागतसन्त्यागो भृत्यस्याभरणं तथा
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा
आधानादीनि कर्माणि शक्तिमान्न करोति यः
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदस्तथा
पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः
अप्रजोऽयं नरव्याघ्र भवत्यधार्मिको नरः
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च
यानि कुर्वंश्च पापानि प्रायश्चित्तीयते नरः
एतान्येव तु कर्माणि क्रियमाणानि मानवैः
येषु येषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्
अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति
प्राणात्यये तथा ज्ञानादाचम्य मदिरामपि
आचोदितो धर्मपरः पुनस्संस्कारमर्हति
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति
गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम्
उद्दालकश्श्वेतकेतुं जनयामास शिष्यतः
स्तेयं कुर्वन्हि गुर्वर्थमापत्स्वपि न पातकी
बहुशः कामकारेण न चेद्यस्सम्प्रवर्तते
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति
स्वयम्प्रकाशिता यश्च न स पापेन लिप्यते
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणे नृप
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन
आज्यहोमस्समिद्धेऽग्नौ प्रायश्चित्तं विधीयते
पारिवित्त्यं तु पतिते नास्ति प्रव्रजितेऽपि वा
भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम्
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत्
अनुग्रहः पशूनां हि संस्कारो विधिचोदितः
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्
सकाराणं तथा तीर्थे नित्यं वा प्रतिपादनम्
स्त्रियास्तथाऽभिचारिण्या निष्कृतिस्स्याददूषिका
अपि सा पूयते तेन न तु भर्ता प्रदुष्यते
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयस्स्याददोषवान्
असमर्थस्य भृत्यस्य विसर्गस्स्याददोषवान्
वनदाहो गवामर्थे क्रियमाणो न दूषकः
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति
प्रायश्चित्तानि वक्ष्यामि विस्तरेण च भारत
यानि कृत्वा नरः पूतो भविष्यति नराधिप
तपसा कर्मभिश्चैव प्रदानेन च भारत
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते
एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत्
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः
अनसूयुरधश्शायी कर्म लोके प्रकाशयन्
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते
षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः
मासे मासे प्रलम्बस्तु त्रिभिर्वर्षैर्विमुच्यते
संवत्सरेण मासाशी पूयते नात्र संशयः
तथैवोपवसन्राजन्स्वल्पेनापि प्रमुच्यते
क्रतुनाऽप्यश्वमेधेन पूयते नात्र संशयः
ये चाप्यवभृथे स्नान्ति केचिदेवंविधा नराः
ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत्
मुच्यते ब्रह्महत्यायस्सर्वपापेभ्य एव च
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम्
दोग्ध्रीणां स च पापेभ्यस्सर्वेभ्योऽपि प्रमुच्यते
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्
शतं वै यस्तु काम्भोजान्ब्राह्मणेभ्यः प्रयच्छति
नियतेभ्यो महाराज स च पापात्प्रमुच्यते
मनोरथं तु यो दद्यादेकस्मै पुरुषर्षभ
न कीर्तयेच्च तद्दत्त्वा स च पापात्प्रमुच्यते
सुरापानं तु यः कुर्याद्वह्निवर्णां पिबेन्नरः
स पावयत्यथात्मानमिह लोके परत्र च
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषात्
मरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन्
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः
समितिं ब्राह्मणैर्गच्छेदितीयं ब्रह्मणी श्रुतिः
उदपानं शिवं कुर्यात्सुरां पीत्वा विमत्सरः
पुनर्न च पिबेद्राजन्संस्कृतस्स च शुध्यते
गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत्
पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्
अनृतेनोपवर्वक्ता च प्रतिरोद्धा गुरोस्तथा
उपाहृत्य प्रियं तस्मै मनसः प्रीतिकारकम्
अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत्
खरचर्मवासाष्षण्मासांस्तथा मुच्येत किल्बिषात्
स्तेनस्तस्यापहरेत्तस्मै दद्यात्समं वसु
विविधेनाभ्युपायेन स्तेनो मुच्येत किल्बिषात्
कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशापरम्
परिवित्ती भवेत्पूतः परिवित्ता च भारत
निवेश्यं तु पुनस्तेन भवेत्तारयता पितॄन्
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते
भोजनं पृतिनाऽशुद्धं चातुर्मास्यं विधीयते
स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः
स्त्रियस्त्वाशङ्किताः पापे नोपगम्या विजानता
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा
चतुष्पात्सकलो धर्मो ब्राह्मणस्य विधीयते
पादोन इष्टो राजन्ये तथा धर्मो विधीयते
तथा वैश्ये च शूद्रे च पादः पादो विधीयते
विद्यादेवंविधे तेषां गुरुलाघवनिर्णयम्
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्वोत्तरान्बहून्
त्रिरात्रं वायुभक्षस्स्यात्कर्म च प्रथयन्नरः
अगम्यागमने राजन्प्रायश्चित्तं विधीयते
आर्द्रवस्त्रेण षण्मासान्विभाव्यं भस्मशायिना
एवमेव तु सर्वेषामकार्याणां विधिर्भवेत्
ब्रह्मणोक्तेन विधिना दृष्टान्तागमहेतुना
सावित्रीमप्यधीयानश्शुचौ देशे मिताशनः
अहिंसो मन्दकं जल्पान्मुच्यते सर्वकिल्बिषात्
अहस्सु सततं तिष्ठेदभ्याकाशं निशास्स्वपन्
त्रिरहास्त्रिर्निशायां च सवासा जलमाविशेत्
स्त्रीशूद्रपतितांश्चापि नाभिभाषेत वाग्यतः
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः
एवं शुभा शुभं प्रेत्य लभते भूतसाक्षिकम्
अतिरिच्येत्तयोर्यस्तु तत्कर्ता लभते फलम्
तस्माद्दानेन तपसा कर्मणा वा फलं शुभम्
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्
कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम्
दद्याच्च नित्यं वित्तानि तथा मुच्येत किल्बिषात्
अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्
महापातकवर्जं तु प्रायश्चित्तं विधीयते
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च
अज्ञानज्ञानयो राजन्विहितान्यनुजानतः
जानता तु कृतं पापं गुरु सर्वं भवत्युत
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम्
आस्तिके श्रद्दधाने च विधिरेष विधीयते
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन
दम्भद्वेषप्रधानेषु विधिरेष न शिष्यते
शिष्टाचारश्च दिष्टश्च धर्मो धर्मभृतां वर
सेवितव्यो नरव्याघ्र प्रेत्य चेह हितेप्सुना
स राजन्मोक्ष्यते पापात्तेन पूर्णेन हेतुना
त्राणार्थं वा वधे तेषामथवा नृपकर्मणा
अथवा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि
मा चैवानार्यजुष्टेन मृत्युना निधनं गमः
वैशम्पायनः-
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः
चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम्