वैशम्पायनः-
तूष्णीम्भूतं तु राजानं कुन्तीपुत्रं युधिष्ठिरम्
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्
व्यासः-
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन
धर्मः प्रमाणं लोकस्य नित्यं धर्मोऽनुवर्त्यताम्
अनुतिष्ठस्व तद्राजन्पितृपैतामहं पदम्
ब्राह्मणेषु तु यो धर्मस्स नित्यो वेदनिश्चितः
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः
भृत्यो वाऽप्यथ वा पुत्रस्तपस्वी वाऽपि कश्चन
पापान्सर्वैरुपायैस्तान्नियच्छेत्पातयेत वा
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा
ते त्वया धर्महर्तारो निहतास्सपदानुगाः
स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव
राजा निहन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः
युधिष्ठिरः-
न तेऽतिशङ्के वचनं यद्ब्रवीषि तपोधन
अपरोक्षो हि ते धर्मस्सर्वधर्मभृतां वर
मया त्ववध्या बहवो घातिता राज्यकारणात्
तानि कर्माणि मामद्य पचन्ति च दहन्ति च
व्यासः-
ईश्वरो वा भवेत्कर्ता पुरुषो वाऽपि भारत
नापरो वर्तते लोके कर्मजं वा फलं नृषु
ईश्वरेण नियुक्तो हि साध्वसाधु च भारत
कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत्
यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने
छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन
अथवा तदुपादानात्प्राप्नुयात्कर्मणः फलम्
शास्त्रकर्मकृतं पापं पुरुषे तन्न विद्यते
न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम्
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय
यथाऽत्र पुरुषः कर्ता कर्मणोश्शुभपापयोः
नापरो विद्यते तस्मादेवमप्यशुभं कुतः
नेह कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते
यदि वा मन्यसे राजन्हरौ सर्वं प्रतिष्ठितम्
एवमप्यशुभं कर्म न भूतं न भविष्यति
अथोपपत्तिर्लोकस्य कर्तव्या शुभपापयोः
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम्
तथाऽपि लोके कर्माणि समावर्तन्त भारत
शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतम्
एवं पश्य शुभादेशं कर्मणस्तत्फलं ध्रुवम्
त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत
एवमात्मपरित्यागस्तव राजन्न शोभनम्
विहितानीह कौन्तेय प्रायश्चित्तानि कर्मणाम्
शरीरवांस्तानि कुर्यादशरीरः पराभवेत्
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं करिष्यसि
प्रायश्चित्तमकृत्वा वै प्रेत्य तप्तासि भारत
युधिष्ठिरः-
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा
श्वशुरा गुरवश्चैव मातुलास्सपितामहाः
क्षत्रियाश्च महाभागस्सम्बन्धिसुहृदस्तथा
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह
बहवश्च मनुष्येन्द्रा नानादेशसमागताः
घातिता राज्यलुब्धेन मयैग्रेण पितामह
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः
असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन
दह्याम्यनिशमद्यापि चिन्तयानः पुनः पुनः
हीनां पार्थिवसिंहैस्तैश्श्रीमद्भिः पृथिवीमिमाम्
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्
कोटिशश्च नरानद्य परितप्स्ये पितामह
का नु तासां वरस्त्रीणामवस्था हि भविष्यति
विहीनानां तु तनयैः पतिभिर्भ्रातृभिस्तथा
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहतान्
आक्रोशन्त्यः कृशा दीनाः निपतन्त्यश्च भूतले
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः
त्यक्त्वा प्राणान्प्रियान्सर्वान्गमिष्यन्ति यमक्षयम्
वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामस्स्त्रीवधं वयम्
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्
नकरे निपतिष्यामो ह्यधश्शिरस एव हि
शरीराणि त्यजिष्यामस्तपसोग्रेण सत्तम
आश्रमाणां विशेषांस्त्वं ममाचक्ष्व पितामह
वैशम्पायनः-
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा
परीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्
व्यासः-
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मरन्
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ
काङ्क्षमाणाश्श्रियं कृत्स्नां पृथिव्यां च महद्यशः
कृतान्तविधिसंयुक्ताः कालेन मरणं गताः
न त्वं हन्ता न भीमोऽयं नार्जुनो न यमावपि
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम्
न तस्य मातापितरौ नानुग्राह्यो हि कश्चन
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः
हेतुमात्रमिदं तस्य विहितं भरतर्षभ
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्
कर्म मूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः
सुखदुःखगुणोदर्कं काले काले फलप्रदः
तेषामपि महाबाहो कर्माणि परिचिन्तय
विनाशहेतुकानि त्वं यैस्ते कालवशं गताः
आत्मनश्च विजानीहि नियतव्रतशीलताम्
यदा त्वमीदृशं कर्म विधिनाऽऽक्रम्य कारितः
त्वष्ट्रेव विहितं यन्त्रं यथा चेष्टयितुर्वशे
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत्
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः
यदृच्छया विनाशं च शोकहर्षावनर्थकौ
व्यलीकं चापि यत्तत्र चित्तवैतंसिकं तव
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर
इदं तु श्रूयते पार्थ युद्धे देवासुरे पुरा
असुरा भ्रातरो ज्येष्ठा यवीयांसस्तथा सुराः
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्
जघ्नुर्दैत्यांस्तथा देवास्त्रिदिवं चापि लेभिरे
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः
संश्रिता दानवानां च साह्यार्थं दर्पमोहिताः
सालावृका इति ख्यातास्त्रिषु लोकेषु भारत
अष्टाशीतिसहस्राणि ते चापि विबुर्धैर्हताः
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोद्धताः
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम्
कुलं वा यदि वा राज्ये न तद्वृत्तोपघातकम्
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप
धर्मरूपो ह्यधर्मश्च तच्च ज्ञेयं विपश्चिता
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव
देवैः पूर्वगतं मार्गमनुयातोऽसि पाण्डव
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पार्थिव
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परन्तप
यो हि पापसमारम्भे कार्ये तद्भावभावितः
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः
तस्मिंस्तत्कलुषं सर्वं समस्तमिति शब्दितम्
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे
अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम्
तमाहर महाराज विपाप्मैवं भविष्यसि
मरुद्भिस्सह जित्वाऽरीन्मघवान्पाकशासनः
एकैकं क्रतुमाहृत्य शतकृत्वश्शतक्रतुः
धूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान्
मरुद्गणैर्वृतश्शक्रश्शुशुभे शोभयन्दिशः
स्वर्गे लोके महीयन्तमप्सरोभिः शचीपतिम्
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम्
सेयं त्वामनुसम्प्राप्ता विक्रमेण वसुन्धरा
निर्जिताश्च महीपाला विक्रमेण त्वयाऽनघ
तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय
बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन्
रञ्जयन्प्रकृतीस्सर्वाः परिपाहि वसुन्धराम्
कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय
कामाशयो हि स्त्रीवर्गश्शोकमेवं प्रहास्यसि
एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा
न शोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ
स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः
अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकण्टकम्
रक्ष स्वधर्मं कौन्तेय श्रेयान्यः प्रेत्यभाविकः