वैशम्पायनः-
युधिष्ठिरः-
ततो धर्मसुतो राजा नारदं प्रत्यभाषत
भगवञ्छ्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम्
वैशम्पायनः-
एवमुक्तस्तु स देवर्षिर्धर्मराजेन नारदः
आचचक्षे यथावृत्तं सुवर्णष्ठीविनं प्रति
नारदः-
एवमेतन्महाबाहो यथाऽयं केशवोऽब्रवीत्
तस्याः कथाया यच्छेषं तत्ते वक्ष्यामि पृच्छतः
अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः
वस्तुकामावभिगतौ सृञ्जयं जयतां वरम्
तत्र सम्पूजितौ तेन विधिदृष्टेन कर्मणा
सर्वकामैस्सुविहितौ निवसावोऽस्य वेश्मनि
व्यतिक्रान्तासु वर्षासु समये गमनस्य च
पर्वतो मामुवाचेदं काले वचनमर्थवत्
पर्वतः-
नारदः-
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ
उषितौ समये ब्रह्मंस्तद्विचिन्तय साम्प्रतम्
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम्
सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते
वरेण च्छन्द्यतां राजा लभतां यद्यदिच्छति
आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे
तत आहूय राजानं सृञ्जयं जयतां वरम्
पर्वतोऽनुमतो वाक्यमुवाच कुरुनन्दन
पर्वतः-
प्रीतौ स्वो नृप सत्कारैर्भवता भूप सम्भृतैः
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय
देवानामविहिंसायां यद्भवेन्मानुषे क्षमम्
तद्गृहाण महाराज पूजार्हो नौ मतो भवान्
सृञ्जयः-
नारदः-
प्रीतौ भवन्तौ यदि मे कृतमेतावता मम
एष एव परो लाभो निर्वृत्तो मे महाफलः
तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत
पर्वतः-
शृणु राजन्सुसङ्कल्पं यत्ते हृदि चिरं स्थितम्
अभीप्ससि सुतं वीरं वीर्यवन्तं दृढव्रतम्
आयुष्मतं महाभागं देवराजसमद्युतिम्
भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति
देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः
नारदः-
सृञ्जयः-
तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः
प्रसादयामास तदा नैतदेवं भवेदिति
आयुष्मान्मे भवेत्पुत्रो भवतोस्तपसा मुने
नारदः-
न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षया
तमहं नृपतिं दीनमब्रवं पुनरेव च
स्मर्तव्यो हि महाराज दर्शयिष्यामि ते स्मृतः
अहं ते दयितं पुत्रं प्रेतराजवशं गतम्
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम्
सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव
ववृधे स यथा काले सरसीव महोत्पलम्
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत्
तदद्भुततमं लोके पप्रथे कुरुपुङ्गव
बुबुधे तच्च देवेन्द्रो वरदानं मनीषिणोः
ततस्स्वाभिभवाद्भीतो बृहस्पतिमते स्थितः
कुमारस्यान्तरप्रेक्षी नित्यमेवाभ्यवर्तत
स वज्रं चोदयामास दिव्यास्त्रं मूर्तिमत्स्थितम्
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो
प्रवृद्धः किल वीर्येण मामेषोऽभिभविष्यति
सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ
एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जयः
कुमारमन्तरप्रेक्षी नित्यमेवान्वपद्यत
सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम्
हृष्टस्सान्तःपुरो राजा वननित्योऽभवत्तदा
ततो भागीरथीतीरे कदाचिद्वननिर्झरे
धात्रीद्वितीयो बालस्स क्रीडार्थं पर्यधावत
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः
सहसोत्पतितं व्याघ्रमाससाद महाबलम्
स बालस्तेन निष्पिष्टो वेपमानो नृपात्मजः
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे
हत्वा च राजपुत्रं स तत्रैवान्तरधीयत
शार्दूलो देवराजस्य माययाऽन्तर्हितस्तदा
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत्
अभ्यधावत तं देशं स्वयमेव महीपतिः
स ददर्श शयानं तं गतासुं पीतशोणितम्
कुमारं विगतानन्दं निशाकरमिव च्युतम्
स तमुत्सङ्गमारोप्य परिपीडितवक्षसम्
पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः
ततस्स राजा सस्मार मामान्तर्गतमानसः
तस्याहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम्
समये तानि वाक्यानि श्रावितश्शोकलालसः
यानि ते यदुवीरेण श्रावितानि महीपते
सञ्जीवितश्चापि पुनर्वासवानुमते तदा
भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा
तत ऊर्ध्वं कुमारश्च स्वर्णष्ठीवी महायशाः
चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान्
कारयामास राज्यं च पितरि स्वर्गते भुवि
वर्षाणामेकशतवत्सहस्रं भीमविक्रमः
तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः
तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः
उत्पाद्य च बहून्पुत्रान्कुलसन्तानकारिणः
कालेन महता राजन्कालधर्ममुपेयिवान्
एवं राजेन्द्र सञ्जातं शोकमेव निवर्तय
यथा त्वं केशवः प्राह व्यासश्च सुमहातपाः
पितृपैतामहं राज्यमास्थाय धुरमुद्वह
इष्ट्वा पुण्यैर्महायज्ञैरिष्टं लोकमवाप्स्यसि