युधिष्ठिरः-
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत्
पर्वतेन किमर्थं वा दत्तस्तेन ममार च
यदा वर्षसहस्रायुस्तदा भवति मानवः
कथमप्राप्तकौमारस्सृञ्जयस्य सुतो मृतः
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्
तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम्
श्रीभगवान्-
अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर
नारदः पर्वतश्चैव द्वावृषी लोकविश्रुतौ
मातुलो भागिनेयश्च देवलोकादिहागतौ
विहर्तुकामौ सम्प्रीत्या मानुषेषु पुनः प्रभू
हविःपवित्रभोज्येन देवभोज्येन चैव हि
नारदो मातुलस्तत्र भागिनेयस्तु पर्वतः
तावुभौ तपसोपेताववनीतलचारिणौ
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम्
प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः
यो भवेद्धृदि सङ्कल्पश्शुभो वा यदि वाऽशुभः
अन्योन्यस्य च आख्येयो मृषा शापोऽन्यथा भवेत्
तौ तथेति प्रतिज्ञाय देवर्षी लोकपूजितौ
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः
नारदपर्वतौ-
आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते
यथावत्पृथिवीपाल आवयोः प्रगुणीभव
श्रीभगवान्-
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह
ततः कदाचित्तौ राजा महात्मानौ तथा गतौ
अब्रवीत्परमप्रीतस्सुतेयं देवरूपिणी
एकैव मम कन्यैषा युवां परिचरिष्यति
दर्शनीयाऽनवद्याङ्गी शीलवृत्तसमन्विता
सृञ्जयः-
सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा
परं सौम्येयमित्युक्त्वा ताभ्यां राजा शशास ताम्
कन्ये विप्रावुपचर देववत्पितृवच्च ह
श्रीभगवान्-
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत
ववृधे हि ततस्तस्य हृदि कामो महात्मनः
यथा शुक्लस्य पक्षस्य प्रवृत्तावुहुराट्छनैः
न च तं भागिनेयाय पर्वताय महात्मने
शशंस मन्मथं तीव्रं व्रीडमानस्स धर्मवित्
तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध ह
कामार्तं नारदं क्रुद्धश्शशापैनमथो भृशम्
पर्वतः-
कृत्वा समयमव्यग्रो भवान्वै सहितो मया
यो भवेद्धृदि सङ्कल्पश्शुभो वा यदि वाऽशुभः
अन्योन्यस्य तदाख्येयमिति तद्वै मृषा कृतम्
भवतो वचनं ब्रह्मंस्तस्मादेष व्रजाम्यहम्
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा
सुकुमार्यां कुमार्यां ते तस्मान्नैष क्षमाम्यहम्
ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन्
अकार्षीस्समयभ्रंशमावाभ्यां यः कृतो मिथः
तस्माच्छप्स्यसि सङ्क्रुद्धो भवन्तं तं निबोध मे
सुकुमारी तु ते भार्या भवितेयं न संशयः
वानरत्वं च ते कन्याविवाहात्प्रभृति प्रभो
द्रक्ष्यन्ते वानराश्चान्ये स्वरूपेण विनाकृतम्
श्रीभगवान्-
स तद्वाक्यं तु विज्ञाय पर्वतं नारदस्तदा
शशाो तमभिक्रुद्धो भागिनेयं स मातुलः
नारदः-
तपसा ब्रह्मचर्येण सत्येन च दमेन च
युक्तोऽपि धर्मनित्यश्च स्वर्गो नो वासमाप्स्यसि
श्रीभगवान्-
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ
पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः
पूज्यमानो यथान्यायं तेजसा स्वेन भारत
अथ तामलभत्कन्यां नारदस्सृञ्जयात्मजाम्
धर्मेण विप्रप्रवरस्सुकुमारीमनिन्दिताम्
सा तु कन्या यथाशापं नारदं तं ददर्श ह
पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम्
सुकुमारी च देवर्षिं वानरप्रतिमाननम्
नैवावमन्यत तदा प्रीतिमत्येव चाभवत्
उपतस्थे च भर्तारं न चान्यं मनसाऽप्यगात्
देवं मुनीं वा यक्षं वा पतित्वे पतिवत्सला
ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह
पर्वतः-
वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम्
ततोऽभिवाद्य प्रोवाच पर्वतो नारदं तदा
भवान्प्रसादं कुरुतात्स्वर्गादेशाय ये प्रभो
श्रीभगवान्-
तमुवाच ततो दृष्ट्वा नारदः पर्वतं तदा
कृताञ्जलिमुपासीनं दीनं दीनतरस्स्वयम्
नारदः-
त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि
इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात्
अद्यप्रभृति नो वासं स्वर्गे नावाप्स्यसीति ह
तव नैतद्वि सदृशं पुत्रस्थाने हि मे भवान्
श्रीभगवान्-
निवर्तयेतां तं शापावन्योन्येन तदा मुनी
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्
सुकुमारी न सम्प्राप्त परपुंसि विशङ्कया
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा
ऋषिः परमधर्माज्ञो नारदो भगवान्प्रभुः
तवैवाभेद्यहृदयो मा भूते संशयोऽत्र वै
साऽनुनीता बहुविधं पर्वतेन महात्मना
शापदोषं च तं भर्तुश्श्रुत्वा सा प्रकृतिं गता
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान्
प्रत्यक्षकर्ता सर्वस्य नारदोऽयं महानृषिः
एष वक्ष्यति ते पृष्टो यथावृत्तं नरेश्वर