वैशम्पायनः-
अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः
अर्जुनः-
ज्ञातिशोकाभिसन्तप्तो धर्मपुत्रः परन्तपः
एष शोकार्णवे मग्नस्तमाश्वासय माधव
सर्वे स्म ते संशयिताः पुनरेव जनार्दन
अस्य शोकं महाप्राज्ञ प्रणाशयितुमर्हसि
वैशम्पायनः-
एवमुक्तस्तु गोविन्दो विजयेन महात्मना
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः
अनतिक्रमणीयो हि धर्मराजस्य माधवः
बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात्
सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम्
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन्
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम्
व्याकोचमिव विस्पष्टं पद्मं सूर्यविबोधितम्
श्रीभगवान्-
मा कृथाः पुरुषव्याघ्र त्वं शोकं गात्रशोषणम्
न हि ते सुलभा भूयो निहता स्मिन्रणाजिरे
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने
तथा ते क्षत्रिया राजन्ये व्यतीता रणाजिरे
सर्वे ह्यभिमुखाश्शूरा निहता रणशोभिनः
नैषां कश्चित्पृष्ठतो वा पलायन्वाऽपिचाहतः
सर्वे त्यक्त्वाऽऽत्मनः प्राणान्युद्ध्वा वीरा महारणे
शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि
क्षत्रधर्मरताश्शूरा वेदवेदाङ्गपारगाः
प्राप्ता वीरगतिं पुण्यां ताञ्शोचितुमर्हसि
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
सृञ्जयं पुत्रशोकार्तं यथाऽयं नारदोऽब्रवीत्
नारदः-
सुखदुःखैरहं त्वं च प्रजास्सर्वाश्च सृञ्जय
अविमुक्ता मरिष्यामस्तत्र का परिदेवना
महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन्
शैत्यमानय सन्तापं शृणु विस्तरशश्च मे
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम
यस्य सेन्द्रास्सवरुणा बृहस्पतिपुरोगमाः
देवा विश्वसृजो राजन्यज्ञमीयुर्महात्मनः
यस्स्पर्धामानयच्छक्रं देवराजं पुरन्दरम्
शक्रप्रियैषिणं यं विद्वान्प्रत्याचष्ट बृहस्पतिम्
संवर्तो याजयामास यं पीडार्थं बृहस्पतेः
यस्मिन्प्रशासति महीं नृपतौ नृपसत्तम
अकृष्टपच्या पृथिवी विबभौ सस्यमालिनी
आविक्षितस्य वै सत्रे विश्वे देवास्सभासदः
मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः
मरुद्गणा मरुत्तस्य यत्सोममपिबन्नुतः
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमयि श्वैत्येत्युदाहरन्
सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम
यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम्
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिपम्
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे
मत्स्यान्कर्कटकान्नक्रान्मकराञ्छिंशुकानपि
नदीष्ववासृजद्राजन्मघवा लोकपूजितः
हैरण्यान्पातितान्दृष्ट्वा मत्स्यान्मकरकच्छपान्
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः
तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले
ईजानो वितते यज्ञे ब्राह्मणेभ्यस्समार्पयत्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतमस्तुभ्यं मा पुत्रमनुतप्यथाः
शिबिमौशीनरं चैव मृतं सृञ्जय शुश्रुम
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टत
महता रथघोषेण पृथिवीमनुनादयन्
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः
यावदस्य गवाश्वं स्यादारण्यैः पशुभिस्सह
तावतीः प्रददौ गास्स शिबिरौशीनरोऽध्वरे
नोद्यन्तारं धुरं तस्य कञ्चिन्मेने प्रजापतिः
न भूतं न भविष्यं च सर्वराजसु सृञ्जय
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात्
अदक्षिणमयज्वानं पुत्रं संस्मृत्य मा शुचः
भरतं चैव दौष्यन्तिं मृतं सृञ्जय शुश्रुम
शाकुन्तलं महात्मानं भूरिद्रविणचेतसम्
योऽबध्नात्त्रिशतं वाजीन्देवेभ्यो यमुनामनु
सरस्वतीं त्रिंशतो नु गङ्गामनु चतुर्दश
अश्वमेधसहस्रेण राजसूयशतेन च
इष्टवान्स महातेजा दौष्यन्तिर्भरतः पुरा
भरतस्य तु यत्कर्म सवराजसु पार्थिवाः
स्वं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन्
सहस्रं युद्धयान्बध्नात्पुरा विद्यां वितत्य च
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
रामं दाशरथिं चापि मृतं सृञ्जय शुश्रुम
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान्
नाधनो यस्य विषये नानर्थः कस्यचिद्भवेत्
सर्वस्यासीत्पितृसमो रामो राज्यं यदाऽन्वशात्
कालवर्षी च पर्जन्यस्सस्यानि समवर्धयत्
नित्यं सुवर्षमेवासीद्रामे राज्यं प्रशासति
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत्
न व्यालकाद्भयं चासीद्रामे राज्यं प्रशासति
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम्
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति
सन्तुष्टास्सर्वसिद्धार्था निर्भयास्स्वैरचारिणः
नरास्सत्यव्रतधरा रामे राज्यं प्रशासति
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति
स चतुर्दश वर्षाणि वने प्रोष्य महामनाः
दशाश्वमेधानाजह्रे यथाविधि निरर्गलान्
युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः
आजानुबाहुस्सुमुखस्सिंहस्कन्धो महाभुजः
दशवर्षसहस्राणि रामो राज्यमकारयत्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः
असुराणां सहस्राणि बहूनि सुरेश्वरः
अजयद्बाहुवीर्येण मघवाँल्लोकपूजितः
यस्सहस्रं सहस्राणां कन्या हेमविभूषिताः
ईजानो वितते यज्ञे दक्षिणा अत्यकालयत्
सर्वा रथगताः कन्या रथास्सर्वे चतुर्युजः
रथे रथे शतं नागाः पद्मिनो हेममालिनः
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम्
उपह्वरे निवसतो यस्याङ्के निषसाद ह
गङ्गा भागीरथी तस्मातुर्वशी चाभवत्पुरा
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम्
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
दिलीपं च महाप्राज्ञ मृतं सृञ्जय शुश्रुम
यस्य कर्माणि भूरीणि कथयन्ति मनीषिणः
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः
ईजानो वतते यज्ञे ब्राह्मणेभ्यस्त्वमन्यत
यस्य वै यजमानस्य यज्ञे यज्ञे पुरोहितः
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत्
यस्य यज्ञे महानासीद्यूपश्श्रीमान्हिरण्मयः
तं देवाः कर्म कुर्वाणाश्शक्रज्येष्ठा उपासत
चषाले यस्य सौवर्णे तस्मिन्यूपे हिरण्मये
ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा
अवादयत्तत्र वीणां मध्ये विश्वावसुस्स्वयम्
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम्
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे
यद्येषा हेमसञ्छन्नाः क्षीबाः पथिषु शेरते
राजानं चित्रधन्वानं दिलीपमपराजितम्
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः
त्रयश्शब्दा न जीर्यन्ते दिलीपस्य निवेशने
स्वाध्यायशब्दो ज्याशब्दश्शब्दो वै दीयतामिति
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
मान्धातारं यौवनाश्वं मृतं सृञ्जय शुश्रुम
यं देवानश्विनौ गर्भं पितुः पार्श्वान्निरुहतुः
संवृद्धो युवनाश्वस्य जठरे यो महात्मनः
पृषदाज्योद्भवश्श्रीमांस्त्रिलोकविजयी नृपः
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम्
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै
मामेवायं धास्यतीति तमिन्द्रो ह्यभ्युपपद्यत
मान्धातेति ततस्तस्य नाम चक्रे शचीपतिः
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्
तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत
स आसीद्द्वादशसमो द्वादशाहेन वीर्यवान्
तमिमं पृथिवी सर्वा एकाह्ना समपद्यत
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि
योऽनरण्यं च नृपतिं मरुत्तमसितं गयम्
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत्
यौवनाश्वो यदा चापं समरे प्रत्यपद्यत
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे
यतस्सूर्य उदेति स्म यत्र च प्रतितिष्ठति
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशां पते
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम्
अतिरिक्तान्द्विजातिभ्यो व्यभजंस्त्वितरे जनाः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम
य इमां पृथिवीं सर्वां विजित्य सहसागराम्
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्महीम्
ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुन्धराम्
इष्ट्वा क्रतुसहस्रेण राजसूयशतेन च
तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः
व्यूढे दैवासुरे युद्धे हत्वा दैतेयदानवान्
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः
अन्त्येषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान्
पुरुं राज्येऽभिषिच्य स्वे सदारः प्राविशद्वनम्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
अम्बरीषं च नाभागं मृतं सृञ्जय शुश्रुम
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम्
यस्सहस्रं सहस्राणां राज्ञामयुतयाजिनाम्
ईजानो वितते यज्ञे ब्राह्मणेभ्यस्त्वमन्यत
नैतत्तु पूर्वजाश्चक्रुर्न करिष्यन्ति चापरे
इत्यम्बरीषं नाभागे अन्वमोदन्त दक्षिणाः
शतं राजसहस्राणि शतं राजशतानि च
सर्वेऽश्वमेधैरीजानास्तेऽन्वयुर्दक्षिणायनम्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय
यस्य भार्यासहस्राणां शतमासीन्महात्मनः
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवाः
हिरण्यकवचास्सर्वे सर्वे चोत्तमधन्विनः
शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः
कन्यां कन्यां शतं नागा नागं नागं शतं रथाः
रथं रथं शतं चाश्वा देशजा हेममालिनः
अश्वमश्वं शतं गावो गां गां तद्वदजाविकम्
एतद्धनमपर्यन्तमश्वमेधे महामखे
शशबिन्दुर्महाराज ब्राह्मणेभ्यो ह्यमंसत
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम
यस्स वर्षशतं राजा हुतशिष्टाशनोऽभवत्
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः
गयः-
ददतो मे क्षयो मा भूद्धर्मे श्रद्धा च वर्धताम्
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन
नारदः-
लेभे च कामान्सर्वास्तान्पावकादिति नश्श्रुतम्
दर्शेन पूर्णमासेन चातुर्मास्यैः पुनः पुनः
अयजत्स महातेजास्सहस्रं परिवत्सरान्
शतं गवां सहस्राणि शतमश्वशतानि च
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान्
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि
पितॄन्स्वधाभिः कामैश्च स्त्रियस्स्वाः पुरुषर्षभ
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम्
दक्षिणामददद्राजा वाजिमेधे महाक्रतौ
यावत्यस्सिकता राजन्गङ्गायां भरतर्षभ
तावतीरेव गाः प्रादादाधूर्तरजसो गयः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
रन्तिदेवं च साङ्कृत्यं मृतं सृञ्जय शुश्रुम
सम्यगाराध्य यश्शक्रं वराँल्लेभे महायशाः
रन्तिदेवः-
अन्नं च नो बहु भवेदतिथींश्च लभेमहि
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन
नारदः-
उपातिष्ठन्त पशवस्स्वयं तं संशितव्रतम्
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम्
महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी
ब्राह्मणेभ्योऽददान्निष्कान्सदसि प्रयतो नृपः
तुभ्यं तुभ्यं निष्कमिति यदा क्रोशन्ति वै द्विजाः
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्समप्रतिपद्य ते
अन्वाहार्योपकरणं द्रव्योपकरणं च यत्
घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च
नासीत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः
साङ्कृते रन्तिदेवस्य यां रात्रिमवसन्गृहे
आलभ्यन्त तदा गावस्सहस्राण्येकविंशतिः
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथापुरम्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविग्रहम्
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन्
नक्षत्रराजं वर्षान्ते व्यभ्रं ज्योतिर्गणा इव
एकच्छत्रा मही यस्य प्रतापादभवत्पुरा
योऽश्वमेधसहस्रेण तर्पयामास देवताः
यः प्रादात्कनकस्तम्भं प्रासादं सर्वकाञ्चनम्
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम्
द्विजातिभ्योऽनुरूपेभ्यः कामांश्च विविधान्बहून्
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः
खानयामास यः कोपात्पृथिवीं सागराङ्किताम्
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
राजानं च पृथुं वैन्यं मृतं सृञ्जय शुश्रुम
यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः
क्षताच्च नस्त्रायतीति ततो हि क्षत्रियस्स्मृतः
पृथुं वैन्यं प्रजा दृष्ट्वा रक्षस्वेति यदब्रुवन्
ततो राजेति नामास्य अनुरागादजायत
अकृष्टपच्या पृथिवी पुटके पुटके मधु
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः
अरोगास्सर्वसिद्धार्था मनुष्या अकुतोभयाः
तथा निकाममवसन्क्षेत्रेषु च गृहेषु च
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः
शैलाश्चापाद्व्यदीर्यन्त ध्वजभङ्गश्च नाभवत्
हैरण्यांस्त्रिनरोत्सेधान्पर्वतानेकविंशतिम्
ब्राह्मणेभ्यो ददौ राजा योश्वमेधे महामखे
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
किं वै राजन्ध्यायसे सृञ्जय त्वं न वै तूष्णीं वाचिममां शृणोषि
न चेन्मोघं विप्रलप्तं मयेदं पथ्यं मुमूर्षोरिव सम्यगुक्तम्
सृञ्जयः-
शृणोमि ते नारद वाचमेनां विचित्रार्थां स्रजमिव पुण्यगन्धाम्
राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तानां शोकनिर्नाशनार्थाम्
न चेन्मोघं विप्रलप्तं महर्षे दृष्ट्वैव त्वां नारद वीतशोकः
शुश्रूषे ते वचनं ब्रह्मवादिन्न ते तृप्याम्यमृतस्येव पानात्
अमोघदर्शिन्मम चेत्प्रसादं सताय दग्धस्य विभो प्रकुर्याः
सुतस्य सञ्जीवनमद्य मे स्यात्तव प्रसादात्सुतसङ्गमाप्नुयाम्
नारदः-
यस्ते पुत्रः शयितोयं विजातः स्वर्णष्ठीवी यमदात्पर्वतस्ते
पुनस्तं ते पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्रिणं च