वैशम्पायनः-
द्वैपायनवचश्श्रुत्वा कुपिते च धनञ्जये
व्यासमामन्त्र्य कौरव्यः प्रत्युवाच युधिष्ठिरः
युधिष्ठिरः-
न पार्थिवमिदं राज्यं न भोगाः पृथग्विधाः
प्रीणयन्ति मनो मेऽद्य शोको मां दारयत्ययम्
श्रुत्वा वीरविहीनानां विपुत्राणां च योषिताम्
परिदेवयमानानां न शान्तिं मनसा लभे
वैशम्पायनः-
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः
युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः
व्यासः-
न कर्मणा लभ्यते चिन्तया वा नाप्यस्य किञ्चित्पुरुषस्य दाता
पर्याययोगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः
न बुद्धिशक्त्याऽऽध्ययनेन शक्यं प्राप्तुं विशेषं मनुजैरकाले
मूर्खोऽपि चाप्नोति कदाचिदर्थान्कालो हि सर्वं पुरुषस्य दाता
न भूरकालेषु फलं ददाति शिल्पानि मन्त्राश्च तथौषधानि
तान्येव कालेन समाहितानि सिद्ध्यन्ति चैधन्ति च भूतिकाले
कालेन शीघ्रं प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति
कालेन पद्मोत्पलवत्य आपः कालेन पुष्यन्ति नागा वनेषु
कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णरश्मिः
नाकालतः पुष्पफलं द्रुमाणां नाकालवेगास्सरितो वहन्ति
नाकालमत्ताः खगपन्नगाश्च वनद्विपाश्शैलमृगाश्च लोके
नाकालतस्स्त्रीषु भवन्ति गर्भा नायन्त्यकाले शिशिरोष्णवर्षाः
नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः
नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम्
नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति
नाकालतो वर्धते हीयते वा चन्द्रस्समुद्रश्च महोर्मिमाली
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः
कालेन परिपक्वाश्च म्रियन्ते चापि मानवाः
घ्नन्ति चान्ये नरान्राजंस्तानप्यन्ये तथा नराः
सञ्ज्ञैषा लौकिकी राजन्न निहन्ति न हन्यते
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखमिति ध्यायन्दुःखस्यापचितिं चरेत्
कथं मुह्यसि मूढस्सन्शोच्यान्किमनुशोचसि
पश्य दुःखानि दुःखेषु भयेष्वतिभयान्यपि
आत्माऽपि चायं न मम सर्वाऽपि पृथिवी मम
यथा मम तथाऽह्येषामिति पश्यन्न मुह्यति
शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
एवमेतानि कालेन प्रियद्वेष्याणि भागशः
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्
सुखमेव हि दुःखान्तं कदाचिद्दुःखतस्सुखम्
तस्मादेतद्द्वयं जह्याद्य इच्छेद्भूतिमात्मनः
यन्निमित्तं भवेच्छोकस्तापो वा दुःखमेव वा
आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत्
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः
ईषदप्यङ्ग दाराणां पुत्राणां वाऽऽचरन्प्रियम्
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च
ये च मूढतमा लोके ये च बुद्धेः परं गताः
त एव सुखमेधन्ते मध्यः क्लिशेन युज्यते
भीष्मः-
इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्
परावरज्ञो लोकस्य स राजा सुखदुःखवित्
परदुःखेन यो दुःखी न स जातु सुखी भवेत्
दुःखानां हि क्षयो नास्ति जायते ह्यपरावरम्
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च
पर्यायतस्सर्वमवाप्तुवन्ति तस्मान्न मुह्येन्न च सम्प्रहृष्येत्
दीक्षां राज्ञां संयुगे धर्ममाहुर्योगं राष्ट्रे दण्डनीतिं च सम्यक्
वित्तत्यागं दक्षिणां चैव यज्ञे सम्यग्दानं पावनानीति विद्यात्
रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन सन्त्यक्तात्मा यज्ञशीलो महात्मा
सर्वाल्ँलोकान्धर्मदृष्ट्याऽवलोकन्नूर्ध्वं देहान्मोदते देवलोके
जित्वा सङ्ग्रामं पालयित्वा च राष्ट्रं सोमं पीत्वा वर्धयित्वा प्रजाश्च
युक्त्या दण्डं धारयित्वा प्रजानां पश्चात्क्षीणायुर्मोदते देवलोके
यजन्ति यज्ञान्विजयन्ति राज्यं रक्षन्ति राष्ट्राणि प्रियाणि चैषाम्
सम्यग्वेदान्सर्वशास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा प्रजाश्च
चातुर्वर्ण्यं शास्त्रदृष्ट्या निवेश्य पूतात्मा वै मोदते देवलोके
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः
पौरजानपदामात्यास्स राजन्राजसत्तमः