वैशम्पायनः-
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत्
अजातशत्रुं कौन्तेयमिदं वचनमब्रवीत्
व्यासः-
अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम्
मनोरथा महाराज ये तत्रासन्युधिष्ठिर
तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः
अरण्ये दुःखवसतिरनुभूता तपस्विभिः
दुःखस्यान्ते नरव्याघ्रस्सुखान्यनुभवन्त्विमे
धर्ममर्थं च कामं च भ्रातृभिस्सह भारत
अनुभूय ततः पश्चात्प्रस्थातासि विशां पते
अतिथीनां पितॄणां च देवतानां च भारत
आनृण्यं गच्छ कौन्तेय ततस्स्वर्गं गमिष्यसि
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुपुङ्गव
ततः पश्चान्महाराज गमिष्यसि परां गतिम्
भ्रातॄंश्च सर्वान्क्रतुभिस्संयोज्य बहुदक्षिणैः
सम्प्राप्य कीर्तिमतुलां पाण्डवेय गमिष्यसि
विद्यते पुरुषव्याघ्र वचनं कुरुपुङ्गव
शृणुष्व च यथा कुर्वन्धर्मान्न चलसे नृप
आददानस्य विजयं विग्रहं च युधिष्ठिर
समानधर्मकुशलास्स्थापयन्ति नरेश्वर
प्रत्यक्षमनुमानं च उपमानं तथाऽऽगमः
अर्थापत्तिस्तथैतिह्यं संशयो निर्णयस्तथा
आकारो इङ्गितश्चैव गतिश्चेष्टा च भारत
प्रतिज्ञा चैव हेतुश्च दृष्टान्तोपनयस्तथा
उक्तं निगमनं तेषां प्रमेयं च प्रयोजनम्
एतानि साधनान्याहुर्बहुवर्गप्रसिद्धये
प्रत्यक्षमनुमानं च सर्वेषां योनिरिष्यते
प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः
अप्रमाणवता नीतो दण्डो हन्यान्महीपतिम्
देशकालप्रतीक्षी यश्शत्रूंस्तान्हर्षयेन्नृप
शास्त्रजां बुद्धिमास्थाय संयुज्येतैनसा न सः
आददद्बलिषड्भागं यो राष्ट्रं नाभिरक्षति
प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः
निबोध च यथाऽऽतिष्ठन्धर्मान्न चलते पथः
निग्रहाद्धर्मशास्त्राणामविरुद्ध्यन्नपेतभीः
कामक्रोधावनादृत्य पितेव समदर्शनः
दैवेनाभ्याहतो राजा कर्मकाले महाद्युते
यन्न साधयते कर्म न तत्राहुर्व्यतिक्रमम्
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः
पापैस्सह न सन्दध्याद्राष्ट्रं पश्यन्न कारयेत्
शूरान्धर्मांश्च सत्कार्याद्विद्वांसश्च युधिष्ठिर
गोमिनो धनिनश्चैव परिपाल्या विशेषतः
व्यवाहरेषु योक्तव्याः प्रष्टव्याश्च बहुश्रुताः
प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः
वेदार्थतत्त्वविद्राजंस्तर्कशास्त्रबहुश्रुताः
मन्त्रे च व्यवहारे च नियोक्तव्या विजानता
तर्कशास्त्रकृता बुद्धिर्धर्मशास्त्रकृता च या
दण्डनीतिकृता चैव त्रैलोक्यमपि साधयेत्
नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्थिव
वेदज्ञा ये च शास्त्रज्ञास्ते च राजन्सुबुद्धयः
आन्वीक्षकीत्रयीवार्तादण्डनीतिषु पारगाः
ते तु सर्वत्र योक्तव्यास्ते च बुद्धेः परं गताः
गुणयुक्तेऽपि नैकस्मिन्विश्वसेत विचक्षणः
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः
एनसा युज्यते राजा दुर्दान्त इति चोच्यते
ये रक्ष्यमाणा हीयन्ते दैवेनाभ्याहता नृप
तस्करैश्चापि मृद्यन्ते सर्वं तद्राजकिल्बिषम्
सुमन्त्रिते सुनीते च न्यायतश्चोपपादिते
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर
विपद्यन्ते च कर्माणि सिद्ध्यन्त्यपि च देवताः
कृते पुरुषकारे तु नैनस्स्पृशति पार्थिवम्
अत्र ते राजशार्दूल कथयिष्ये कथामिमाम्
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः
असहायस्य वीरस्य निर्जितस्य युधिष्ठिर
यत्कर्म वै निग्रहे शात्रवाणां योगश्चाग्र्यः पालने मानवानाम्
कृत्वा कर्म प्राप्य कीर्तिं प्रयुद्धे वाजिग्रीवो मोदते देवलोके
सन्त्यक्तात्मा समरे चाततायी शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः
अश्वग्रीवः पुण्यशीलो महात्मा संसिद्धात्मा मोदते देवलोके
धनुर्यूपो रशना ज्या शरस्स्रुक्स्रुवः खड्गो रुधिरं यत्र चाज्यम्
रथो वेदिः कामजो युद्धमग्निश्चातुर्होत्रं चतुरो वाजिमुख्याः
हुत्वा तस्मिन्यज्ञवह्नावराती पाशान्मुक्त्वा राजसिंहस्तरस्वी
प्राणान्हुत्वा चावभृथे रणेषु वाजिग्रीवो मोदते देवलोके
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन सन्त्यक्तात्मा यज्ञशीलो महात्मा
सर्वांल्लोकान्व्याप्य कीर्त्या मनस्वी वाजिग्रीवो मोदते देवलोके
दैवीं सिद्धिं मानुषीं दण्डनीत्या योगन्यासैः पालयित्वा महीं च
तस्माद्राजा धर्मशीलो महात्मा वाजिग्रीवो मोदते देवलोके
विद्वांस्त्यागी श्रद्दधानः कृतज्ञस्त्यक्त्वा लोकं मानुषं कर्म कृत्वा
मेधाविनां विदुषां सम्मतानां तनुत्यजां लोकमाक्रम्य राज्ञाम्
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा महात्मा
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे वाजिग्रीवो मोदते देवलोके
वृत्तं यस्य श्लाघनीयं मनुष्यास्सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम्
स्वर्गं जित्वा वीरलोकानवाप्य सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा