वैशम्पायनः-
अस्मिन्वाक्यान्तरे वाक्यं देवस्थानो महातपाः
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम्
देवस्थानः-
यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति
अत्र ते वर्तयिष्यामि तदेकाग्रमनाश्शृणु
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता
तां जित्वा च वृथा राजन्न परित्यक्तुमिहार्हसि
चतुष्पदी हि निश्श्रेणी ब्रह्मण्येषा प्रतिष्ठिता
तां क्रमेण महाबाहो यथावज्जय पार्थिव
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः
स्वाध्याययज्ञास्त्वृषयो ध्यानयज्ञास्तथाऽपरे
कर्मनिष्ठाश्च बुद्ध्यर्थास्तपोनिष्ठाश्च भारत
वैखानसानां कौन्तेय वचनं श्रूयते यथा
ईहेत धनहेतोर्यस्तस्यानीहा गरीयसी
भूयान्दोषोऽस्य वर्तेत यस्तत्कर्म समाश्रयेत्
कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति विधिकारणात्
आत्मना तृषितो बुद्ध्या भ्रूणहत्यां न बुध्यते
अनर्हते यद्ददाति न ददाति यदर्हते
अर्हानर्हापरिज्ञानाद्दानधर्मोऽहि दुष्करः
इष्टाय सृष्टानि धनानि लोके यथाऽऽदिष्टः पुरुषो रक्षिता च
तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः
यज्ञैरिन्द्रो विविधै रत्नवद्भिर्देवान्सर्वानभ्ययाद्भूरितेजाः
तेनेन्द्रो द्यां प्राप्य विभ्राजतेऽसौ तस्माद्यज्ञे सर्वमेवोपयोज्यम्
महादेवस्सर्वयज्ञे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव
विश्वान्देवान्व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान्कृत्तिवासाः
आविक्षितः पार्थिवोऽभैन्मरुत्तो ऋद्ध्या मर्त्यो योऽजयद्देवराजम्
यज्ञे यस्य श्रीस्स्वयं सन्निविष्टा यस्मिन्भाण्डे काञ्चनं सर्वमासीत्
हरिश्चन्द्रः पार्थिवेन्द्रश्श्रुतस्ते यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः
ऋद्ध्या शक्रं योऽजयन्मानुषस्संस्तस्माद्यज्ञे सर्वमेवोपयोज्यम्
अत्र चोदाहरन्तीममितिहासं पुरातनम्
इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः
सन्तोषो वै स्वर्गसमस्सन्तोषः परमं सुखम्
तुष्टेर्न किञ्चित्परतस्सा सम्यक्प्रतितिष्ठति
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः
यदाऽऽत्मज्योतिरचिरात्स्वात्मन्येव प्रसीदति
न बिभेति यदा चासौ यदा चास्मान्न बिभ्यति
कामद्वेषौ च जयति तदाऽऽत्मानं प्रपश्यति
यदाऽसौ सर्वभूतानां न द्रुह्यति न तुष्यति
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
एवं कौन्तेय भूतानि तत्तद्धर्मं तथा तथा
तदा तदा प्रशंसन्ति तस्माद्बुध्यस्व भारत
अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः
नैतन्न चापरं केचिदुभयं च तथाऽपरे
यज्ञमेके प्रशंसन्ति सन्न्यासमपरे जनाः
नैकं न चापरं केचिदुभयं च तथाऽपरे
दानमेके प्रशंसन्ति केचिच्चैव प्रतिग्रहम्
केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते
राज्यमेके प्रशंसन्ति प्रजानां परिपालनम्
हत्वा हित्वा च जित्वा च केचिदेकान्तशीलिनः
एतत्सर्वं समालोक्य बुधानामेव निश्चयः
अद्रोहेणैव भूतानां यो धर्मस्स सतां मतः
अद्रोहस्सत्यवचनं संविभागो दमः क्षमा
प्रजनं स्वेषु दारेषु मार्दवं ह्रीरचापलम्
एवं धर्मं प्रधानेष्टं मनुस्स्वायम्भुवोऽब्रवीत्
तस्मादेतत्प्रयत्नेन कौन्तेय प्रतिपालयेत्
यो हि राज्ये स्थितश्शश्वद्वशी तुल्यप्रियाप्रियः
क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित्
असाधुनिग्रहरतस्साधूनां प्रग्रहे रतः
धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित्
पुत्रसङ्क्रामितश्रीश्च वने वन्येन वर्तयेत्
विधानमाश्रमाणां वै कुर्वन्कालमतन्द्रितः
य एवं वर्तते राजा राजधर्मिविनिश्चितः
तस्यायं च परश्चैव लोकस्स्यात्सम्फलो नृप
निर्वाणं हि सुदुष्प्राप्यं बहुविघ्नं च मे मतम्
एवं धर्ममनुक्रान्तास्सत्यदानतपःपराः
आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः
प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः
गोब्राह्मणार्थे युध्यन्तस्सम्प्राप्ता गतिमनुत्तमाम्
एवं रुद्रास्सवसवस्तथाऽऽदित्याः परन्तप
साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः
अप्रमत्तास्ततस्स्वर्गं प्राप्ताः पुण्यैस्स्वकर्मभिः