वैशम्पायनः-
तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽब्रवीत्
सन्तप्तश्शोकदुःखाभ्यां राजवाक्शल्यपीडितः
अर्जुनः-
कथयन्ति पुरावृत्तमितिहासमिमं जनाः
विदेहराज्ञस्संवादं भार्यया सह भारत
उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं जनेश्वरम्
विदेहराजमहीषी दुःखिता प्रत्यभाषत
धनान्यपत्यं मित्राणि रत्नानि विविधानि च
पन्थानं पावनं हित्वा जनको मौढ्यमास्थितः
तं ददर्श प्रिया भार्या भैक्षवृत्तिमकिञ्चनम्
धानामुष्टिमुपासीनं निरीहं गतमत्सरम्
तमुवाच समामत्य भर्तारमकुतोभयम्
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः
जनकाभार्या-
कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम्
कापालीं वृत्तिमास्थाय धान्यमुष्टिमुपाससे
प्रतिज्ञा ते वृथा राजन्विचेष्टा चान्यथा तव
राज्यं महत्सृज्य स्वल्पे मुह्यसि पार्थिव
नैतेनातिथयो राजन्देवर्षिपितरस्तथा
शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः
भर्ता भूत्वाऽथ लोकस्य सोऽद्यान्यैर्भूतिमिच्छसि
श्रियं हित्वाऽद्य दीप्तां त्वं श्ववत्सम्प्रति पत्यसे
अपुत्रा जननी तेऽद्य कौसल्या चापता त्वया
आश्रिता धर्मकामास्त्वां क्षत्रियाः पर्युपासते
त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुकाः
तांश्च त्वं विफलान्कृत्वा कान्नु लोकान्गमिष्यसि
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु
नैव तेऽस्ति परो लोको नापरः पापकर्मणः
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम्
स्रजो गन्धानलङ्कारान्वासांसि विविधानि च
किमर्थमभिसन्त्यज्य परिव्रजसि निष्क्रियः
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत्
अद्याविनिपतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम्
य इमां कुण्डिकामात्रां त्रिविष्टब्धं च ते हरेत्
वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत्
यस्त्वं सर्वं समुत्सृज्य धानामुष्टिमनुग्रहः
यदनेन कृतं सर्वं किमियं मम दीयते
धानामुष्टेरिहार्थश्चेत्प्रतिज्ञा ते नशिष्यते
का वाऽहं तव को मे त्वं केऽद्य ते मय्यनुग्रहः
प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत्
प्रासादे शयनं यानं वासांस्याभरणानि च
श्रियां निराशैरधनेस्त्यक्तमित्रैरकिञ्चनैः
सौखिकैस्सम्भृतो योऽर्थस्स सन्त्यजति किं नु तम्
योऽत्यर्थं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते
सदैव याचमानेषु सत्सु डम्भाविवर्जिषु
एतेषु दक्षिणा दत्ता दानवानां विदुर्हुतम्
जातवेदा यथा राजन्नादग्ध्वा नोपशाम्यति
सदैव याचमानो वै तथा शाम्यति न द्विजः
सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा
अन्नदाता भवेद्दाता कुशास्त्रं मोक्षकाङ्क्षिणः
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत्
गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव चाश्रिताः
प्रभवं च प्रतिष्ठां च ज्ञात्वा निन्दन्त आसते
त्यागं विन्देद्भैक्षाशान्न मौढ्यान्न च याचनात्
ऋजुस्तु योऽर्थं त्यजति तं मुक्तं विद्धि भिक्षुकम्
असक्तस्सक्तवद्गच्छन्निस्सङ्गो मुक्तबन्धनः
समः पुत्रे च शत्रौ च स वै मुक्तो महीपते
परिव्रजन्ति येऽनार्थं मुण्डाः काषायवाससः
सिता बहुविधैः पाशैर्विचिन्वन्तो वृथामिषम्
त्रयीं च नामवार्तां च त्यक्त्वा पुत्रान्व्रजन्ति ये
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः
अनिष्कषायाः काषायमीहार्थमिति विद्धि तम्
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान्
बिभ्रत्साधून्महाराज यथा लोकाञ्जितेन्द्रियः
अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान्
ददात्यहरहः पूर्वं को नु धर्मरतस्ततः
अर्जुनः-
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते
सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः
एवं धर्ममनुक्रान्ता सदा दानतपः पराः
आनृशंस्यगुणोपेताः कामरागविवर्जिताः
प्रजानां पालने युक्ता दममुत्तममास्थिताः
इष्ट्वा लोकानवाप्स्यामो ब्रह्मण्यास्सत्यवादिनः