वैशम्पायनः-
अर्जुनस्य वचश्श्रुत्वा भीमसेनोऽत्यमर्षणः
धैर्यमास्थाय तं ज्येष्ठं भ्राता भ्रातरमब्रवीत्
भीमः-
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि
उपशिक्षाम ते वृत्तं सर्वे चैव न शक्नुमः
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम्
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप
भवतस्तु प्रमोहेन सर्वं संशयितं कृतम्
विक्लबत्वं च नः प्राप्तमबलत्वं तथैव च
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः
मोहमापद्यसे धिमान्यथा कापुरुषस्तथा
आगतिश्च गतिश्चैव लोकस्य विदिता तव
आयत्यां सच तदात्वे च न तेऽस्त्यविदितं प्रभो
एवं गते महाराज राज्यं प्रति जनाधिप
हेतुमात्रं तु वक्ष्यामि तमिहैकमनाश्शृणु
द्विविधो जायते व्याधिश्शारीरो मानसस्तथा
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते
शारीराज्जायते व्याधिर्मानसो नात्र संशयः
मानसाज्जायते व्याधिश्शारीर इति निश्चयः
शारीरमानसे दुःखे योऽतीते त्वनुशोचति
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति
शीतोष्णे चैव वायुश्च त्रयश्शारीरजा गुणाः
तेषां गुणानां साम्यं यत्तदाहुस्स्वस्थलक्षणम्
तेषामन्यतमोद्रेके विधानमुपदिश्यते
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते
सत्त्वं रजस्तमश्चैव त्रयो मानसा गुणाः
तेषां गुणानां साम्यं चेत्तदाहुस्स्वस्थलक्षणम्
तेषामन्यतमोद्रेके विधानमुपदिश्यते
हर्षेण बाध्यते शोको हर्षश्शोकेन बाध्यते
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति
सर्वं न दुःखी दुःखस्य न सुखी च सुखस्य च
नादुःखी दुःखभागस्य नासुखी च सुखस्य च
स्मर्तुमर्हसि कौरव्य दिष्टं हि बलवत्तरम्
अथवा ते स्वभावोऽयं येन पार्थिव तुष्यसे
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि
प्रव्राजनं च नगरादजिनैश्च विवासनम्
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम्
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि
पुनरज्ञातचर्यायां कीचकेन पदा वधम्
बलिनो हि वयं राजन्देचैरपि सुदुर्जयाः
कथं भृत्यत्वामापन्ना विराटनगरे स्मर
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्
यत्र नापि समैः कार्यं न मित्रैर्न च बन्धुभिः
तस्मिन्ननिर्जिते युद्धे त्वं प्राणान्यदि मोक्ष्यसे
अन्यं देहं समास्थाय ततस्तैरिह योत्स्यसे
तस्मादद्यैव गन्तव्यं युध्यस्व भरतर्षभ
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्
दिष्ट्या दुर्योधनः पापो निहतस्सपदानुगः
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि
द्रौपद्याः केशपक्षस्य दिष्ट्या ते पदवीं गताः
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
वयं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान्