वैशम्पायनः-
याज्ञसेन्या वचश्श्रुत्वा पुनरेवार्जुनोऽब्रवीत्
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम्
अर्जुनः-
दण्डश्शास्ति प्रजास्सर्वा दण्ड एवाभिरक्षति
दण़्डस्सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः
धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते
एतद्विद्वानुपादाय स्वभावं पश्य लौकिकम्
राजदण्डभयादेके नराः पापं न कुर्वते
यमदण्डभयादेके परलोकभयादपि
परस्परभयादेके नराः पापं न कुर्वते
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्
दण्डस्यैव भयादेके न खादन्ति परस्परम्
अन्धे तमसि मज्जेरन्यदि दण्डो न पालयेत्
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्
धनदण्डास्स्मृता वैश्या निर्दण्डश्शूद्र उच्यते
असम्मोहाय मर्त्यानामर्थसंरक्षणाय च
मर्यादा स्थापिता लोके दण्डसञ्ज्ञा विशां पते
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः
नाभीतो यजते राजन्नाभीतो दातुमिच्छति
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः
इन्द्रो वृत्रवधेनैव महेन्द्रस्समपद्यत
माहेन्द्रं च गृहं लेभे लोकानां चेश्वरोऽभवत्
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्
हन्ता रुद्रस्तथा स्कन्दश्शक्रोऽग्निर्वरुणो यमः
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः
वसवो मरुतस्साध्या विश्वे देवाश्च भारत
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान्
यजन्ते मानवाः केचित्प्रशान्तान्सर्वकर्मसु
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया
सत्त्वैस्सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः
नकुलो मूषिकानत्ति बिडालो नकुलं तथा
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा
तानत्ति पुरुषस्सर्वान्पश्य धर्मं यथा गतम्
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्
विधानं दैवविहितं तत्र विद्वान्न मुह्यति
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि
विनीतक्रोधहर्षा हि दान्ता वनमुपाश्रिताः
विना वधं न कुर्वन्ति तापसाः प्राणयापनम्
उदके बहवः प्राणाः पृथिव्यां च फलेषु च
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनम्
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्
पक्ष्मणोर्विनिपातेन येषां स्यात्कालपर्ययः
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून्
मनुष्यास्तन्वये यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः
दण्डश्चेन्न भवेल्लोके विनशिष्यन्निमाः प्रजाः
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः
सत्यं बतेदं ब्रह्मणा पूर्वमुक्तो दण्डः प्रजा रक्षति साधु नीतः
पश्याग्नयः पूतिमांसस्य भीतास्सन्तर्जिता दण्डभयाज्ज्वलन्ति
अन्ध तम इवेदं स्यान्न प्रज्ञायेत किञ्चन
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी
ये हि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः
तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः
दण्डस्य हि भयाद्भीतो भोगायापि प्रकल्पते
चातुर्वर्ण्यप्रमोदाय सुनीतिकरणाय च
दण्डो हि विहितो धात्रा धर्मार्थौ चापि रक्षितुम्
यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च
हन्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च
न ब्रह्मचार्यधीयीत न काल्यं दुहते च गौः
न कन्योद्वहनं गच्छेद्यदि दण्डो न वर्तते
विष्वग्लोपः प्रवर्तेत भिद्येरन्सर्वसेतवः
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत्
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत्
नैवोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः
युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत्
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित्
तिष्ठेत्पितुर्मते धर्मे यदि दण्डो न पालयेत्
दण्डे स्थिताः प्रजास्सर्वा भयं दण्डे विदुर्बुधाः
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः
न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते
यत्र दण्डस्सुविहितश्चरत्यरिविनाशनः
न तत्र पापं क्रूरं वा वञ्चना वा प्रवर्तते
हविश्च प्रलिहेदिष्टं दण्डश्चेन्नोद्यतो भवेत्
लोहेत्काकः पुरोडाशं यदि दण्डो न पालयेत्
यदि दण्डवतो राज्यं विहितं यद्यधर्मतः
कार्यं तत्र न कार्यं च भुङ्क्ष्व भोगान्यजस्व च
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम्
अर्थे सर्वेसमारम्भास्समायत्ता न संशयः
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्
अहिंसाऽसाधुहिंसेति श्रेयान्धर्मपरिग्रहः
नात्यन्तं गुणवत्किञ्चिन्न चाप्यत्यन्तनिर्गुणम्
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नासिकाम्
कृषन्ति बहवो राजन्बध्नन्ति दमयन्ति च
एवं पर्याकुले लोके विपथे जर्झरीकृते
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचरेत्
यज देहि प्रजा रक्ष स्वधर्ममनुपालय
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय
मा च ते निघ्नतश्शत्रून्मन्युर्भवतु पार्थिव
न तत्र किल्बिषं किञ्चिद्धन्तुर्भवति भारत
आततायी हि यो हन्यादाततायिनमाहवे
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्च्छति
अवध्यस्सर्वभूतानामन्तरात्मा न संशयः
अवध्ये चात्मनि कथं वध्यो भवति कर्हिचित्
यथा हि पुरुषश्शालां पुनः प्रविशते नवाम्
देहानुत्सृज्यते राजन्प्रतिपत्स्यन्ति चापरान्
एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः
एव जीवश्शरीराणि तानि तानि प्रवर्तते