सहदेवः-
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथाऽस्तु नः
शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथाऽस्तु नः
द्व्यक्षरस्तु भवेन्मृत्युत्र्यक्षरं ब्रह्म शाश्वतम्
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम्
जन्ममृत्यू तु राजन्द्वावात्मन्येव समाश्रितौ
अदृश्यमानौ भूतानि योजयेतामसंशयम्
अविनाशोऽस्य सत्वस्य नियतो यदि भारत
हित्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते
अथापि च सहोत्पत्तिस्सत्त्वस्य प्रलयस्तथा
नष्टे शरीरे नष्टस्स्याद्वृथा तस्य क्रियापथः
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः
पन्था निषेवितस्सद्भिस्स निषेव्यो विजानता
स्वायम्भुवेन मनुना तथाऽन्यैश्चक्रवर्तिभिः
यद्ययं ह्यधमः पन्थाः कस्मात्तैस्तैर्निषेवितः
कृतत्रेतादियुक्तानि गुणवन्ति च भारत
युगानि बहुशस्तैश्च भुक्तेयमवनी नृप
लब्ध्वाऽपि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्
न भुङ्क्ते यो नृपस्सम्यक्किं फलं तस्य जीवितम्
अथवा वसतो राजन्वने वन्येन जीवतः
द्रव्येषु यस्य ममता मृत्योरास्ये विवर्तते
बाह्यान्तराणां भूतानां स्वभावं पश्य भारत
ये तु पश्यन्ति सद्भूतं मुच्यन्ते ते महाभयात्
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः
दुःखप्रलापानार्तस्य तन्मे क्षन्तुमिहार्हसि
तथ्यं वा यदि वाऽतथ्यं यन्मयैतत्प्रभाषितम्
तद्विद्धि पृथिवीपाल भक्त्या भगवतो हरेः