युधिष्ठिरः-
मुहूर्तं तावदेकाग्रमनश्श्रोत्रेऽन्तरात्मना
धारयिष्यामि ते श्रुत्वा रोचते वचनं मम
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः
गच्छेयं तं गमिष्यामि हित्वा ग्राम्यसुखान्युत
क्षेम्यश्चैकाकिना गम्यः पन्था कोऽस्तीति पृच्छ माम्
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः
अरण्ये फलमूलाशी चरिष्यामि मृगैस्सह
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चर्मचीरजटाधरः
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः
तपसा विधिदृष्टेन शरीरमुपशोषयन्
मनःकर्णसुखा नित्यं श्रृण्वन्नुच्चावचा गिरः
मुदितानामरण्येषु वदतां मृगपक्षिणाम्
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्
नानारूपान्वने पश्यन्रमणीयान्वनौकसः
वानप्रस्थजनस्यापि दर्शनं कूलवासिनः
नाप्रियाण्याचरन्किञ्चित्किं पुनर्ग्रामवासिनाम्
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
पितॄंश्च देवान्वन्येन वाग्भिरद्भिश्च तर्पयन्
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
सेवमानः प्रतीक्षेऽहं देहस्यास्य समापनम्
अथ वाऽकालिके चाहमेकैकस्मिञ्जनक्षये
चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेबरम्
पांसुभिस्समभिध्वस्तश्शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः
अकुर्वाणः परैः काञ्चित्संविदं जातु केनचित्
जङ्गमाजङ्गमान्सर्वानविहिंसंश्चतुर्विधान्
प्रजास्सर्वास्ववस्थासु प्रतिः प्राणभृतां प्रतिः
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीः क्वचित्
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः
अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित्
न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः
गमने निरपेक्षश्च पश्चादनवलोकयन्
ऋजुः प्रणिहितो गच्छन्स्त्रीसंस्थापरिवर्जकः
स्वभावस्तु प्रयात्यग्रे भवन्त्वनशनान्यपि
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्
अल्पं वा स्वादु वा भोज्यं पूर्वालाभेन जातुचित्
अन्यानपि चरल्ँलाभमलाभे सप्त पूरयन्
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसञ्चारे काले विगतभिक्षुके
एककालं चरन्भैक्षं गृहाणि द्वे च पञ्च वा
स्नेहपाशान्विमुच्याहं चरिष्यामि महीमिमाम्
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन्
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः
याः काश्चिज्जीवता शक्यास्सर्वास्त्यक्तुं क्षमाः क्रियाः
तास्सर्वास्समभित्यज्य निमेषादिव्यवस्थितः
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः
सुपरित्यक्तसङ्कल्पस्सुनिर्णिक्तात्मकल्मषः
विमुक्तस्सर्वसङ्गेभ्यो व्यतीतस्सर्ववागुराः
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि मानसीम्
तृष्णया हि महत्पापमज्ञानादस्मि कारितः
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः
कार्यकारणसंश्लिष्टं स्वजनं नाभिनन्दति
आयुषोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम्
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं तु यत्
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्
जन्ममृत्युजराव्याधिवेदनाभिपरिप्लुतम्
असारमिममस्वन्तं संसारं त्यजतस्सुखम्
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित्
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्
पार्थिवो नृपतिस्स्वल्पैः कारणैरपि बाध्यते
तस्मात्प्रज्ञामृतमिदं चिरान्मां पर्युपस्थितम्
तत्प्राप्य प्रार्थयेत्स्थानमव्ययं शाश्वतं तथा
एतया सन्ततं धृत्या चरन्नेवम्प्रकारया
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः