वैशम्पायनः-
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
स्मयमानो महातेजाः सृक्किणी लेलिहन्निव
अर्जुनः-
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्
यत्कृत्वाऽमानुषं कर्म त्यजेथाश्श्रियमुत्तमाम्
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्
हतामित्रः कथं स त्वं त्यजेथा बुद्धिलाघवात्
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः
किमर्थं च महीपालानवधीः क्रोधमूर्च्छितः
यो नाजिजीविषेद्भैक्षं कर्म येन च केनचित्
समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः
स सर्वलोके न ख्यातो न पुत्रपशुसंहितः
कापालीं नृप पापिष्ठां वृत्तिमासाद्य जीवति
सन्त्यक्तराज्यमृद्धं ते लोकोऽयं किं प्रवदिष्यति
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः
कस्मादाशंससे भैक्षं चर्तुं प्राकृतवत्प्रभो
कस्माद्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम्
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः
भवता विप्रहीणत्वात्प्राप्तं त्वामेव किल्बिषम्
आकिञ्चन्त्यमहीनस्य मृत्यवे नहुषोऽब्रवीत्
कृत्वा नृशंसे निधने धिगस्त्वधनतामिह
आश्वस्तन्यमृषीणां हि विद्यते वेद तद्भवान्
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते
धर्मं स हरते तस्य धनं हरति यस्य यः
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि
अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतस्स्थितम्
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति
पतितश्शोच्यते राजन्निर्धनश्चापि शोच्यते
विशेषं नाधिगच्छामि पतितस्याधनस्य वा
अर्थेभ्यो हि विवृद्धेभ्यस्सम्भृतेभ्यस्ततस्ततः
क्रियास्सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः
अर्थो धर्मश्च कामश्च सुखं चैव नराधिप
प्राणयात्रा हि लोकस्य विनाऽर्थं न प्रसिद्ध्यति
अर्थेनापि विहीनस्य पुरुषस्याल्पचेतसः
विच्छिद्यन्ते क्रियास्सर्वा ग्रीष्मे कुसरितो यथा
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
यस्यार्थास्स पुमाल्ँलोके यस्यार्थास्स च पण्डितः
अधनेनार्थकामेन नार्थश्शक्यो विवित्सता
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधश्श्रुतं दमः
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्धते
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति
धनाद्धि धर्मः निस्रौति शैलाद्गिरिनदी यथा
यः कृशार्थः कृशगवः कृशभृत्यः कृशातिथिः
स वै राजन्कृशो नाम न शरीरकृशः कृशः
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
राजन्किमन्यज्ज्ञातीनां वधाद्गृध्यन्ति देवताः
न चेद्धर्तव्यमन्यस्य कथं तद्धसु धारयेत्
एतावानेव वेदेषु निश्चयः कविभिः कृतः
अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः
इति देवा व्यवसिता वेदवादाश्च शाश्वताः
अधीयन्तेऽध्यापयन्ते यजन्ते याजयन्ति च
कृत्स्नं तदेव श्रेयो हि यदप्याददतेऽन्यतः
न पश्यामोऽनपहृतं धनं किञ्चित्क्वचिद्वयम्
एवमेव हि राजानो यजन्ति पृथिवीमिमाम्
जित्वा ममेयं ब्रुवते पुत्रा इव पितुर्धने
राजर्षयो जितस्वर्गा धर्मो ह्येषां निरुच्यते
यथैव पूर्णादुदधेस्स्यन्दन्त्यापो दिशो दश
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति
आसीदियं दिलीपस्य नृगस्य नहुषस्य च
अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता
स त्वां द्रव्यमयो यज्ञस्सम्प्राप्तस्सर्वदक्षिणः
स चेन्न यजसे राजन्प्राप्तस्त्वं राज्यकिल्बिषम्
येषां राजाऽश्वमेधेन यजते दक्षिणावता
उपेत्य तस्यावभृथे पूतास्सर्वे भवन्ति ते
विश्वरूपो महादेवस्सर्वमेधे महामखे
जुहाव सर्वभूतानि तथैवात्मानमात्मना
शाश्वतोऽयं भूतिपथो नास्त्यन्तमनुशुश्रुम
महाजनपथं गन्ता मा राजन्कुपथं गमः