वैशम्पायनः-
युधिष्ठिरस्स धर्मात्मा शोकव्याकुलचेतनः
शुशोच दुःखसन्तप्तस्स्मृत्वा कर्णं महारथम्
आविष्टो दुःखशोकाभ्यां निश्श्वसंश्च पुनः पुनः
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः
युधिष्ठिरः-
यद्भैक्ष्यमाचरिष्याम वृष्ण्यन्धकपुरे वयम्
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम्
अमित्रा नस्समृद्धार्था वृत्तार्थाः कुरवः किल
आत्मानमात्मना हत्वा किं वयं फलमश्नुम
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्
धिगस्तु चार्थं येनेमामापदं गमिता वयम्
साधु क्षमा दमश्शौचमविरोधो विमत्सरः
अहिंसा सत्यवचनं नित्यानि वनवासिनाम्
वयं तु लोभान्मोहाच्च दम्भं मानं च संश्रिताः
इमामवस्थामापन्ना राज्यक्लेशबुभुक्षया
त्रैलोक्यस्याधिराज्येन नास्मान्कश्चित्प्रहर्षयेत्
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिभिः
ते वयं पृथिवीहेतोरवध्यान्पृथिवीतले
सम्परित्यज्य जीवामो हीतार्था हतबान्धवाः
आमिषे गृध्यमानानामशुभं वै शुनां यथा
आमिषं चैव नो नष्टमामिषस्य च भोजिनः
न पृथिव्या सकलया न सुवर्णस्य राशिभिः
न गजाश्वेन सर्वेण ते त्याज्या य इमे हताः
सूयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः
मृत्युयानं समारुह्य गता वैवस्वतक्षयम्
बहुकल्याणमिच्छन्त ईहन्ते पितरस्सुतान्
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि
सम्भाविता जातबला विदध्युर्यदि नस्सुखम्
इह चामुत्र चैवेति कृपणाः फलहेतुकाः
तासामयं समारम्भो निर्वृत्तः केवलोऽफलः
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः
अभुक्त्वा पार्थिवान्भोगानृणान्यनपहाय च
पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम्
यदैवैषा च पितरौ जातकर्मकराविह
सञ्जातबालरूपेषु तदैव निहता नृपाः
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः
न ते जयफलं किञ्चिद्भोक्तारो जातु कर्हिचित्
पाञ्चालानां कुरूणां च हता एव हि ये हताः
न सकामा वयं ते च न चास्माभिर्न तैर्जितम्
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादनम्
नामात्यसुहृदां वाक्यं न च श्रुतवतां श्रुतम्
न रत्नानि परार्ध्यानि न भूमिद्रविणागमौ
न च धर्म्यानिमाल्ँलोकान्प्रपद्याम स्वकर्मभिः
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः
धृतराष्ट्रस्य पुत्रेण निकृतिप्रीतिसंयुताः
सदैव निकृतिप्रज्ञो द्वेष्टा विद्वेषजीवनः
मिथ्यावृत्तश्च सततमस्मास्वनपराधिषु
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः
धृतराष्ट्रश्च नृपतेस्सौबलेन निवेदितः
तं पिता पुत्रगृध्नुत्वादनुमेनेऽनये स्थितम्
अनपेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा
असंशयं त्वयं राजा यथैवाहं तथा गतः
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्
पतितो यशसा दीप्तान्पातयित्वा सहोदरान्
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः
अस्मत्प्रद्वेषसन्तप्तः पापबुद्धिस्सदैव हि
को हि बन्धुः कुलीनस्संस्तथा ब्रूयात्सुहृज्जने
यथाऽस्मानुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसन्निधौ
आत्मनो हि वयं दोषाद्विनष्टाश्शाश्वतीस्समाः
प्रदहन्तो दिशस्सर्वा भास्करस्येव तेजसा
सोऽस्माकं वैरपुरुषो दुर्वृत्तः प्रग्रहं गतः
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम्
अवध्यानां वधं कृत्वा लोके प्राप्तास्स्म वाच्यताम्
कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम्
राजा राष्ट्रपतिं कृत्वा धृतराष्ट्रोऽद्य शोचति
हताश्शूराः कृतं पापं विषयोऽसौ विनाशितः
हत्वा नो विगतो मन्युश्शोको मां दारयत्ययम्
धनञ्जयकृतं पापं कल्याणेनोपहन्यते
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा
त्यागे यदा कृतमतिर्ब्रह्म सम्पद्यते तदा
स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः
वनमामन्त्र्य वस्सर्वान्गमिष्यामि परन्तप
न हि कृत्स्नतमो धर्मश्शक्यः प्राप्तुमिति श्रुतिः
परिग्रहवता नित्यं प्रत्यक्षमरिसूदन
मया निसृष्टं पापं हि परिग्रहमभीप्सता
जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च
गमिष्यामि विनिर्मुक्तो विशोको निर्ममः क्वचित्
प्रशासध्वमिमामुर्वीं क्षेमां निहतकण्टकाम्
न ममार्थोऽस्ति राज्येन न भोगैः कुरुसत्तमाः
वैशम्पायनः-
एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः
व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत