वैशम्पायनः-
एतावदुक्त्वा देवर्षिर्विरराम स नारदः
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः
तं दीनमनसं वीरमधोवदनमातुरम्
निश्श्वसन्तं यथा नागं पर्यश्रुनयनं तथा
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना
अब्रवीन्मधुराभाषा काले वचनमर्थवत्
कुन्ती-
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम
याचितस्स मया पूर्वं भ्राता ज्ञापयितुं तव
भास्करेण च देवेन पित्रा धर्मभृतां वरः
यद्वाच्यं हितकामेन सुहृदां भूतिमिच्छता
तथा दिवाकरेणोक्तस्स्वप्नान्ते ममाग्रतः
न चैनमशकद्भानुरहं वा तोककारणैः
पुरा प्रत्यनुनेतुं वा नेतुं वाऽप्येकतां त्वया
ततः कालपरीतश्च वैरस्योद्धरणे रतः
प्रतीपकारी युष्माकमिति चोपेक्षितो मया
वैशम्पायनः-
युधिष्ठिरः-
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः
उवाच वाक्यं धर्मात्मा शोकव्याकुललोचनः
भवत्या गूढमन्त्रत्वाद्वञ्चितास्स्म तदा भृशम्
वैशम्पायनः-
शशाप च महातेजास्सर्वलोकेषु योषितः
न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः
स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तथा
स्मरन्नुद्विग्नहृदयो बभूवाथ विचेतनः
ततश्शोकपरीतात्मा विधूम इव पावकः
निर्वेदमगमद्धीमान्राज्ये सन्तापपीडितः