नारदः-
आविष्कृतबलं कर्णं दृष्ट्वा राजाऽथ मागधः
आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः
तयोस्समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः
युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः
क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ
बाहुभिस्समसज्जेतामुभावतिबलान्वितौ
विभेदं सन्धिं देहस्य जरया श्लेषितस्य च
स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः
प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारतः
प्रीत्या ददौ स कर्णाय मालिनीं नगरीमनु
अङ्गेषु नरशार्दूल स राजाऽऽसीत्सपत्नजित्
पालयामास वर्णांस्तु कर्णः परबलार्दनः
दुर्योधनस्यानुमते तवापि विदितं तदा
एवं शस्त्रप्रतापेन प्रथितस्सोऽभवत्क्षितौ
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्म कुण्डले
स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते
सहजं कवचं चापि मोहितो देवमायया
विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा
निहतो विजयेनाजौ वासुदेवस्य पश्यतः
ब्राह्मणस्यापि शापेन रामस्य च महात्मनः
कुन्त्याश्च वरदानेन मायया च शतक्रतोः
भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात्
शल्यतेजोवधाच्चापि वासुदेवनयेन च
रुद्रस्य देवराजस्य यमस्य वरुणस्य च
कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः
अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः
एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः
न शोच्यस्स नरव्याघ्रो युद्धे हि निधनं गतः