नारदः-
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा
ततस्तुष्टो महातेजा ब्रह्मास्त्रं सनिवर्तनम्
प्रोवाच सुमहाप्रज्ञस्स तपस्वी तपस्विने
विदितास्त्रस्ततः कर्णो रममाणो श्रमे गुरोः
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः
ततः कदाचिद्रामस्तु चचाराश्रममन्तिकात्
कर्णेन सहितो धीमानुपवासेन कर्शितः
सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः
तस्योत्सङ्गे समाधाय शिरः क्लान्तमना भृगुः
अथ क्रिमिश्श्लेष्ममयो मांसशोणितभोजनः
दारुणो दारुणाकारः कर्णस्याभ्याशमागमत्
स तस्योरुं समासाद्य बिभेद रुधिराशनः
न चैनमशकत्क्षेप्तुं वक्तुं वाऽपि गुरोर्भयात्
स दश्यमानोऽपि तथा कृमिणा तेन भारत
गुरोः प्रबोधनाकाङ्क्षी तमुपैक्षत सत्तम
कर्णश्च वेदनां धैर्यादसह्यां विनिगृह्य ताम्
अकम्पयन्नव्यथयन्धारयामास भार्गवम्
यदा स रुधिरेणाङ्गे परिस्पृष्टोऽभवद्गुरुः
तदाऽबुध्यत तेजस्वी प्रभुद्धश्चैनमब्रवीत्
परशुरामः-
अहोऽस्म्यशुचितां प्राप्तः किमिदं च कृतं त्वया
कथयस्व भयं त्यक्त्वा याथातथ्यं ममानघ
नारदः-
तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम्
ददर्श रामस्तं चापि कृमिं सूकरसंस्थितम्
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिः परिसंवृतम्
रोमभिस्सन्निरुद्धाङ्गमलर्कं नाम नामतः
स दृष्टमात्रो रामेण क्रिमिः प्राणानवासृजत्
तस्मिन्नेवास्रविक्लिन्ने तदद्भुतमिवाभवत्
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः
राक्षसः-
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम्
मोक्षितो नरकादस्मि भवता मुनिसत्तम
नारदः-
भद्रं च तेऽस्तु सिद्धिश्च प्रियं मे भवता कृतम्
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्
रामः-
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्
नारदः-
सोऽब्रवीदहमासं प्राक्यास्को नामास्मि नामतः
पुरा देवयुगे तात भृगोस्तु सवया इव
सोऽहं भृगोर्हि दयितां भार्यामपहरं बलात्
महर्षेरभिशापेन क्रिमिभूतोऽपतं भुवि
अब्रवीद्धि स मां क्रोधात्तव पूर्वपितामहः
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रवम्
भविता भार्गवो राम इति मामब्रवीद्भृगुः
सोऽहमेनां गतिं प्राप्तो यथा नकुशलस्तथा
त्वया साधो समागम्य विमुक्तः पापयोनितः
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत्
रामः-
नारदः-
अतिदुःखमिदं मूर्खं न जातु ब्राह्मणस्सहेत्
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम्
तमुवाच ततः कर्णश्शापाद्भीतः प्रसादयन्
कर्णः-
ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव
पिता गुरुर्न सन्देहो वेदविद्याप्रदः प्रभुः
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके
नारदः-
रामः-
तमुवाच भृगुश्रेष्ठस्सरोषः प्रदहन्निव
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्
यस्मान्मिथ्याविचीर्णोऽहमस्त्रलोभादिह त्वया
तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति
अन्यत्र वधकालात्ते सदृशे न समीयुषः
अब्राह्मणे न हि ब्रह्म चिरं तिष्ठेत्कदाचन
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि
नारदः-
एवमुक्तस्तु रामेण न्यायेनोपजगाम सः
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत्