ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम्
ह्लादिनीं वप्रसम्पन्नां महानूपां महावनाम्
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च
कवचानि विचित्राणि गङ्गामवजगाहिरे
ततः पितॄणां पुत्राणां गुरूणां स्वजनस्य च
भ्रातॄणामार्यकाणां च पतीनां च कुरुस्त्रियः |
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ||
सुहृदां चापि धर्मज्ञाः प्रचक्रुस्सलिलक्रियाः
उदके क्रियमाणे तु वीराणां वीरपत्निभिः
सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम्
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत
ततः कुन्ती महाराज रुदन्ती शोककर्शिता
व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत्
कुन्ती
यस्स शूरो महेष्वासो रथयूथपयूथपः
अर्जुनेन हतस्सङ्ख्ये वीरलक्षणलक्षितः
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः
अत्यरिच्यत यस्सर्वान्पुरा वस्सपदानुगान्
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन
योऽवृणीत यशश्शूरः प्राणैरपि सदा भुवि
सत्यसन्धस्य शूरस्य सङ्ग्रामेष्वपलायिनः
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः
स हि ते पूर्वजो भ्राता भास्करान्मय्यजायत
कुण्डली कवची शूरो दिवाकरसमप्रभः
वैशम्पायनः
श्रुत्वा तु पाण्डवास्सर्वे मातुर्वचनमप्रियम्
कर्णमेवाभ्यरोचन्त भूयश्चात्यातुरा भवन्
ततस्स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः
उवाच मातरं वीरो निश्श्वसन्निव पन्नगः
युधिष्ठिरः
यश्शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः
तलशब्दप्रणदितो महारथमहाद्रुमः
यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात् ||
कथं पुत्रो भवत्याऽशु देवगर्भः पुराऽभवत्
कुण्डली कवची शूरो दिवाकरसमप्रभः
यस्य बाहुप्रतापेन तापितास्सर्वतो वयम्
तमग्निमिव वस्त्रेण कथं छादितवत्यसि
यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत्
सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि
तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम्
आर्योपायैर्यथाऽस्माभिर्बलं गाण्डीवधन्वनः
भूमिपानां च सर्वेषां बलं बलवतां वरम्
नान्यः कुन्तीसुताज्जिष्णोर्निहन्याद्रथिनो रथी
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः
असूत तं भवत्यग्रे कथमद्भुतविक्रमम्
अहो भवत्या मन्त्रेण गृहीतेन वयं हताः
निधनेन हि कर्णस्य पीडितास्सहबान्धवाः
अभिमन्योर्विनाशाद्धि द्रौपदेयवधादपि
पाञ्चालानां वधाच्चापि कुरूणां घातनादपि
ततश्शतगुणं दुःखमिदमापतितं महत् ||
कर्णमेवानुशोचामि दग्धामग्नाविवाहुतिम् |
न च मे किञ्चिदप्राप्यं भवेदपि दिवि स्थितम्
न च स्म वैशसं घोरं कौरवाणां कृतं भवेत्
वैशम्पायनः
एवं विलप्य करुणं धर्मराजो युधिष्ठिरः
वदन् स शनकै राजन् चकारास्योदकं प्रभुः
ततो विनेदुस्सहसा स्त्रियः पुम्भिश्च सर्वशः
अभितो यास्स्थितास्तत्र तस्मिन्नुदककर्मणि
ततस्समानयामास कर्णस्य च परिच्छदम्
स्त्रियः कुरुपतिश्श्रीमान् प्रेम्णा भ्रातुर्युधिष्ठिरः
स ताभिस्सह धर्मात्मा प्रेतकार्यमनन्तरम्
सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम्
स राजा धृतराष्ट्रश्च कृताञ्जलिरतन्द्रितः
समुत्ततार गङ्गायां भार्यया सह भारत