श्रीभगवान्
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः
तवैव ह्यपराधेन कुरवो निधनं गताः
या त्वं पुत्रं दुरात्मानमिष्टमत्यन्तमानिनम्
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे
दुष्कृतं चैव परुषं वृद्धानां शासनातिगम्
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते
तपोर्थिनं ब्राह्मणी धत्तगर्भा गौर्वोढारं धावितारं तुरङ्गः
शूद्रा दासं पशुपालं तु वैश्या वधार्थिनं त्वद्विधा राजपुत्री
वैशम्पायनः
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः
पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम्
धृतराष्ट्रः
जीवतां परिमाणज्ञस्सैन्यानामसि पाण्डव
हतानां यदि जानीषे परिमाणं ब्रवीहि मे
युधिष्ठिरः
दशायुतसहस्राणि सहस्राणि च विंशतिः
कोट्यष्षष्टिश्च षट् चैव अस्मिन्राजन्मृधे हताः
आलक्ष्याणां च शूराणां सहस्राणि चतुर्दश
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत
धृतराष्ट्रः
युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः
युधिष्ठिरः
यैर्हतानि शरीराणि तस्मिन् परमसङ्कुले
देवराजसमास्ते तु देवराजेन पूजिताः
ये तु हृष्टेन मनसा मर्तव्यमिति भारत
गन्धर्वलोके पूज्यन्ते ते गन्धर्वैस्समागताः
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः
शस्त्रेण निधनं प्राप्तास्ते गता गुह्यकान्प्रति
विध्यमानाः परैर्ये तु ह्रीयमाणा निरायुधाः
ह्रीनिषेधा महात्मानः परानभिमुखान् रणे
भिद्यमानाश्शितैर्बाणैः क्षत्रधर्मपरायणाः
हतास्ते ब्रह्मसदनं गता वीरास्सुवर्चसः
क्षत्रधर्मेण निहतास्ते गताः परमां गतिम् |
ये तत्र निहता राजन्नन्तरायोधनं प्रति
यथाकथञ्चित्पुरुषास्ते गताह्युत्तरान् कुरून्
धृतराष्ट्रः
येन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत्
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया
युधिष्ठिरः
निदेशाद्भवतः पूर्वं वने विचरता मया
तीर्थयात्राप्रसङ्गेन सम्प्राप्तो यमुनातटम्
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्
दिव्यं चक्षुरनुप्राप्तं ज्ञानयोगेन वै पुरा
धृतराष्ट्रः
यथाऽनाथा जनास्तात नाथवन्तश्च पाण्डव
कच्चित्तेषां शरीराणि धक्ष्यन्ते विधिपूर्वकम्
युधिष्ठिरः
न येषां शान्तिकर्तारो न च ये ह्याहिताग्नयः
वयं तु तेषां कुर्मोऽद्य बहुत्वात्तात कर्मणः
यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः
वैशम्पायनः
एवमुक्त्वा महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम्
विदुरं च महाबुद्धिं युयुत्सुं चापि कौरवम्
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सर्वशः
युधिष्ठिरः
भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः
यथा नाथवतां किञ्चिच्छरीरं न विनश्यते
वैशम्पायनः
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा
चन्दनागरुकाष्ठानि तथा कालेयकान्यपि
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च
समाहृत्य महार्हाणि दारुणां चैव सञ्चयान्
रथांश्च मृदितांस्तत्र नानाप्रहरणानि च
चितां कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्
दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा
दुर्योधनं च राजानं भ्रातॄंश्चास्य महारथान् |
शल्यं शलं च राजानं भूरिश्रवसमेव च
जयद्रथं च राजानमभिमन्युं च भारत
दौश्शासनिं लक्ष्मणं च धृष्टकेतुं च भारत
बृहद्बलं सोमदत्तं सृञ्जयं च महारथम्
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च भारत
युधामन्युं च दुर्धर्षमुत्तमौजसमेव च
कोसलेन्द्रं द्रौपदेयान् शकुनिं चैव सौबलम्
अचलं पुष्कलं चैव भगदत्तं च भारत
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च
अलम्बुसं च राजानं जलसन्धं च पार्थिवम्
अन्यांश्च पार्थिवाञ्छूरान् शतशोऽथ सहस्रशः
घृतधाराहुतैर्दीप्तैः पावकैस्समदाहयन् ||
पितृमेधांश्च केषाञ्चित्पार्थिवानां महात्मनाम्
सामानि चान्वगीयन्त तेऽन्वशासत चापरे
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः
कश्मलं सर्वभूतानां तदानीमन्वपद्यत
हुताश्च तत्र दीप्ताश्च दीप्यमानाश्च पावकाः
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ||
तांश्च सर्वान्समानीय राशीन् कृत्वा सहस्रशः |
चितादारुभिरत्युग्रैः प्रभूतस्नेहमूर्छितैः
दाहयामास विदुरो धर्मराजस्य शासनात्
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्