गान्धारी
सौमदत्तिं च पश्यैनं युयुधानेन पातितम्
वितुद्यमानं बहुभिर्विविधैर्माधवान्तिके
पुत्रशोकाभिसन्तप्तस् सोमदत्तो जनार्दन
युयुधानं महेष्वासं गर्हयन्निव दृश्यते
असौ हि भूरिश्रवसो माता शोकपरिप्लुता
आश्वासयति भर्तारं सोमदत्तमनिन्दिता
दिष्ट्या त्वियं महाराज दारुणं भरतक्षयम्
कुरूणां कदनं घोरं युगान्तं नानुपश्यसि
अमूस्तु भूरिश्रवसो भार्यास्सात्यकिना हतम्
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः
एता विलप्य बहुलं भर्तृश्शोकेन कर्शिताः
पश्यन्त्यभिमुखा भूमौ कृपणं बत केशव
भीभत्सुरतिभीभत्सं कर्मेदमकरोत्कथम्
प्रमत्तस्य यदच्छेत्सीद्बाहुं शूरस्य यज्वनः
ततः पापतरं कर्म कृतवानिह सात्यकिः
यस्य प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः
एको द्वाभ्यां हतश्शेते क्षत्रधर्मेण धार्मिकः
इति यूपध्वजस्यैता भार्याः क्रोशन्ति माधव
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत्
सौमदत्तिप्रिया
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः
अयं स हन्ता शत्रूणां मित्राणामभयङ्करः
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः
वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा
युध्यतस्समरेऽन्येन प्रमत्तस्य निपातितः
किं नु वक्ष्यति संसत्सु कथासु च जनार्दनः
अर्जुनस्य तु तत्कर्म स्वयं चापि किरीटवान्
गान्धारी
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना
तामेतामनुशोचन्ति सपत्न्यास्स्वामिवल्लभाः
गान्धारराजश्शकुनिर्बलवान्सत्यविक्रमः
निहतस्सहदेवेन भागिनेयेन मातुलः
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां च वीज्यते
स एष पक्षिभिः पक्षैश्शयान उपवीज्यते
यश्च रूपाणि कुरुते शतशोऽथ सहस्रशः
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा
मायया निकृतिप्रज्ञो यो जिगाय युधिष्ठिरम्
सभायां विपुलं राज्यं स कथं जीवितं जहौ
शकुन्ताश्शकुनिं कृष्ण समन्तात्पर्युपासते
कितवं मम पुत्राणां विनाशायोपशिक्षितम्
एतेनैतन्महद्वैरमाहितं पाण्डवैस्सह
वधाय मम पुत्राणामात्मनस्सगणस्य च
यथैव मम पुत्राणां लोकाश्शस्त्रजिताः प्रभो
एवमस्यापि दुर्बुद्धेर्लोकाश्शस्त्रेण निर्जिताः
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिस्सह
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन