गान्धारी
एष शल्यो हतश्शेते साक्षान्नकुलमातुलः
धर्मज्ञेन सता तात धर्मराजेन संयुगे
यस्त्वया स्पर्धते नित्यं सर्वत्र मधुसूदन
स एष निहतश्शेते मद्रराजो महाबलः
जयद्रथे यदि ब्रूयुरुपराधं कथञ्चन
मद्रपुत्रे कथं ब्रूयुरपराधं विवक्षवः
येन सङ्गृह्णता तात रथमातिरथेर्युधि
जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्
मुखं पद्मपलाशाक्षं बन्धूकाभोष्ठमव्रणम्
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा
आस्याद्विनिस्सृता जिह्वा भक्ष्यते कृष्णपक्षिभिः
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्
रुदन्त्यः पर्युपासन्ते मद्रराजकुलाङ्गनाः
एतास्सुसूक्ष्मवसना मद्रराजं नरर्षभम्
क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम्
शल्यं निपतितं नार्यः परिवार्याभितस्स्थिताः
वासितागृष्टयः पङ्के परिमग्नमिवर्षभम्
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम्
शयानं वीरशयने शरैर्विशकलीकृतम्
एष शैलालयो राजा भगदत्तः प्रतापवान्
गजाङ्कुशधरश्श्रीमाञ्शेते युधि निपातितः
यस्य रुक्ममयी माला शिरस्येषा विराजते
श्वापदैर्भक्ष्यमाणस्य शोभयन्त्येव मूर्धजान्
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्
रोमहर्षणमत्युग्रं शक्रस्य बलिना यथा
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम्
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन
स एष निहतश्शेते भीष्मो भीमकृदाहवे
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्
युगान्त इव कालेन पातितं सूर्यमम्बरात्
एष जित्वा रणे शत्रूञ्शस्त्रपातेन वीर्यवान्
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव
शरतल्पगतं वीरं धर्मे देवर्षिणा समम्
शयानं वीरशयने पश्य शूरनिषेविते
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्
आविश्य शेते भगवान्स्कन्दश्शरवणं यथा
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैस्समर्पितम्
उपधायोपधानार्थं दत्तं गाण्डीवधन्वना
पालयानः पितुश्शास्त्रमूर्ध्वरेता महायशाः
एष शान्तनवश्शेते माधवाप्रतिमो रथः
धर्मात्मा तात सर्वज्ञः पारम्पर्येऽथ निर्णये
अमर्त्य इव मर्त्यस्सन्नेष प्राणानधारयत्
नास्ति युद्धे समः कश्चिन्न विद्यासु पराक्रमे
यत्र शान्तनवो भीष्मश्शेतेऽद्य निहतः परैः
स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः
धर्मज्ञेनाहवे मृत्युराख्यातस्सत्यवादिना
प्रनष्टः कुरुवंशस्स पुनर्येन समुद्भृतः
स गतः कुरुभिस्सार्धं महाबुद्धिः पराजयम्
धर्मेण कुरवः कं नु परिप्रक्ष्यन्ति माधव
हते देवव्रते भीष्मे देवकल्पे नरर्षभे
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम् |
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः ||
विधिपादो मन्त्रपादः पूजापादस्तथैव च |
रहस्यपाद इत्येतत् प्रोक्तं पादचतुष्टयम् ||
पैशाचमासुरं गान्धर्वं मानुषं च चतुर्विधम् |
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्
चकार स हतश्शेते नैनमस्त्राण्यपालयन्
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्
सोऽयमस्त्रभृतां श्रेष्ठो द्रोणश्शस्त्रैः पृथक्कृतः
यस्य निर्दहतस्सेनां गतिरग्नेरिवाभवत्
स भूमौ निहतश्शेते शान्तार्चिरिव पावकः
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव
द्रोणस्य निहतस्यापि ददृशे जीवतो यथा
वेदाश्च यस्माच्चत्वारस् सर्वास्त्राणि च केशव
अनपेतानि वै शूराद्यथावाऽदौ प्रजापतेः
वन्दनार्हाविमौ तस्य वन्दिभिर्वन्दितौ शुभौ
गोमायवो विकर्षन्ति पादौ क्षत्रशतार्चितौ
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन
कृपी कृपणमन्वास्ते दुःखोपहतचेतना
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्
हतं पतिमुपास्यन्तीं द्रोणं शस्त्रभृतां वरम्
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव
उपासते मृधे द्रोणं जटिला ब्रह्मचारिणी
प्रेतकृत्ये च यतते कृपी कृपणमातुरा
हतस्य समरे भर्तुस्सुकुमारी यशस्विनी
अग्नीनाहृत्य विविधवच्चितां प्रज्वाल्य सर्वशः
द्रोणमादाय गायन्ति त्रीणि सामानि गायकाः
किरन्ति च चितामेते जटिला ब्रह्मचारिणः
धनुर्भिश्शक्तिभिश्चैव रथनीडैश्च माधव
शरैश्च विविधैरन्यैर्धक्ष्यन्तो भूरितेजसम् ||
त एते द्रोणमाधाय गायन्ति च रुदन्ति च |
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे ||
अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने |
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः |
अपसव्यं चितां कृत्वा पुरस्कृत्य कृपीं तथा