गान्धारी
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्
गृध्रगोमायवश्शूरं दूरबन्धुमबन्धुवत्
तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन
शयानं वीरशयने रुधिरेण समुक्षितम्
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्
शयानं वीरशयने शूरमाक्रन्दकारिणम्
आवन्त्यमभितो नार्यो रुदन्त्यः पर्युपासते
प्रातिपीयं महेष्वासं हतं भीमेन बाह्लिकम्
प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम्
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते
सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः
पुत्रशोकाभितप्तेन प्रतिज्ञां चैव रक्षता
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः
एकादश चमूभर्त्रा रक्ष्यमाणं महात्मना
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत
भषन्तोऽप्यपकर्षन्ति गहनं निम्नमन्तिकात्
तमेताः पर्युपासन्ते वीक्षमाणा महाभुजम्
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः
यदा कृष्णामुपादाय प्राद्रवत्केकयैस्सह
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः
दुश्शलां मानयद्भिस्तु तदा मुक्तो जयद्रथः
कथमद्य न तां कृष्ण मानयन्ति स्म ते सुताः
सैन्धवं मे सुता बाला प्रस्खलन्तीव दुःखिता
प्रमापयति चात्मानं प्राक्रोशन्ती च पाण्डवान्
किं नु दुःखतरं कृष्ण परं मम भविष्यति
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः
अहो धिग्दुश्शलां पश्य वीतशोकभयामिव
भर्तुश्शिर अपश्यन्तीं धावमानामितस्ततः
वारयामास यस्सर्वान्पाण्डवान्पुत्रगृर्धिनः
स हत्वा विशिखैस्सेनां स्वयं मृत्युवशं गतः
तं सुप्तमिव मातङ्गं वीरं परमदुर्जयम्
परिवार्य रुदन्त्येतास् स्त्रियश्चन्द्रोपमाननाः