गान्धारी
एष वैकर्तनश्शेते महेष्वासो महारथः
ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा
पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून्
शोणितौघपरीताङ्गं शयानं पतितं भुवि
अमर्षी दीर्घरोषश्च महेष्वासो महारथः
रणे विनिहतश्शेते शूरो गाण्डीवधन्वना
यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः
प्रायुध्यन्त पुरस्कृत्य मातङ्गमिव यूथपम्
शार्दूलमिव सिंहेन समरे सव्यसाचिना
मातङ्गमिव मत्तेन मातङ्गेन निपातितम्
त एताः पुरुषव्याघ्र निहतं शूरमाहवे
प्रकीर्णमूर्धजास्तस्य स्त्रियस्तं पर्युपासते
उद्विग्नस्सततं यस्माद्धर्मराजो युधिष्ठिरः
त्रयोदश समा निद्रां चिन्तयन्नाधिगच्छति
अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव
युगान्ताग्निरिवार्चिष्मान्हिमवानिव सुस्थिरः
स भूत्वा शरणं पूर्वं धार्तराष्ट्रस्य माधव
भूमौ विनिहतश्शेते वातरुग्ण इव द्रुमः
पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम्
लालप्यमानां करुणं रुदतीं पतितां भुवि
आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमिदं धरा ते
ततश्शरेणाभिहतं शिरस्ते धनञ्जयेनाहवचक्रमध्ये
अहो धिगेषा पतिता विसञ्ज्ञा समीक्ष्य जाम्बूनदबद्धनिष्कम्
कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता
कलावशेषो हि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः
दृष्टुं न सम्प्रीतिकरश्शशीव कृष्णस्य पक्षस्य चतुर्दशाहे
विवर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा
कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता