गान्धारी
अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः
हतं बाला पतिं वीरं शोच्या शोचत्यनिन्दिता
तमेषा हि समासाद्य भार्या भर्तारमन्तिकात्
विराटदुहिता कृष्ण पाणिना परिमार्जति
तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् |
कामरूपवतीवैषा परिष्वजति भामिनी ||
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता ||
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम्
विमुच्य कवचं कृष्ण शीरमभिवीक्षते |
अवेक्षमाणा तं बाला कृष्णा त्वामभिवीक्षते ||
कथं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः |
बले शौर्ये च सदृशस्तेजसा चैव तेऽनघ ||
रूपेण च तवाऽत्यर्थं शेते भुवि निपातितः
अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः
कच्चिदद्य शरीरं ते भूमौ न परितप्यते
मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ
काञ्चनाङ्गदिनौ शेते विक्षिप्य विपुलौ भुजौ ||
व्यायम्य बहुधा नूनं सुखसुप्तश्श्रमादिव |
एवं विलपतीमार्तां किं मां न प्रतिभाषसे
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे
आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान्
पितॄन्मातॄश्च दुःखार्तान् विहाय क्व गमिष्यसि
वैशम्पायनः
तस्य शोणितसन्दिग्धान् केशानुन्नम्य पाणिना
उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति
गान्धारी
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
कथं त्वां रणमध्यस्थं जघ्नुरेनं महारथाः
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्
द्रोणद्रोणायनी चोभौ यैरसि व्यसने हतः
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः
बालं त्वां परिवार्यैकमनेकेषां निजघ्नताम्
कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम्
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्
दृष्ट्वा बहुभिराक्रन्दैर्निहतं त्वामनाथवत्
वीराः पुरुषशार्दूल कथं जीवन्ति पाण्डवाः
न राज्यलाभो विपुलश् शत्रूणां वा पराभवः
प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण
तव शस्त्रजिताल्ँलोकान्धर्मेण च दमेन च
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय
दुष्करं पुनरप्राप्ते काले भवति केन चित्
यदहं त्वा रणे दृष्ट्वा हतं जीवामि दुर्भगा
कामिदानीं नरव्याघ्र त्वं श्लक्ष्णस्मितया गिरा
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि
परमेण च रूपेण गिरा च स्मितपूर्वया
प्राप्य पुण्यकृतां लोकानप्सरोभिस्समेयिवान्
सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे
एतावानिह संवासो विहितस्ते मया सह
षण्मासास्सप्तमे मासे त्वं वीर निधनं गतः
गान्धारी
इत्युक्तवचनामेनामपाकर्षन्ति दुःखिताम्
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः
उत्तरामपकृष्यैतामार्तामार्ततरास्स्वयम्
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च
द्रोणास्त्रशरसङ्कृत्तं शयानं शोणितोक्षितम्
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः
वितुद्यमानं विहगैर्विराटमसितेक्षणाः
न शक्नुवन्ति विवशा विसर्जयितुमातुराः
आसामातपतप्तानामायासेन च योषिताम्
श्रमेण च विवर्णानां रूपाणां विकृतं वपुः
उत्तरां चाभिमन्युं च काम्भोजं च सुदक्षिणम्
शिशूनेतान् हतान् पश्य लक्ष्मणं च सुदर्शनम् ||
कार्ष्णिनाऽभिहतं कृष्ण लक्ष्मणं प्रियदर्शनम्
आयोधनशिरोमध्ये शयानं पश्य माधव