गान्धारी
एष माधव पुत्रो मे विकर्णः प्राज्ञसम्मतः
भूमौ विनिहतश्शेते भीमेन शतधा कृतः
गजमध्ये हतश्शेते विकर्णो मधुसूदन
नीलमेघपरिक्षिप्तश् शरदीव दिवाकरः
अस्य चापग्रहेणैष पाणिः कृतकिणो महान्
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्
अस्य भार्याऽऽमिषप्रेप्सुं गृध्रमेषा तपस्विनी
वारयत्यनिशं योद्धुं न च शक्नोति माधव
युवा वृन्दारकसमो विकर्णः पुरुषर्षभ
सुखोषितस्सुखार्हश्च शेते पांसुषु माधव
कर्णिनालीकनाराचैर्भिन्नवर्माणमाहवे
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्
एष सङ्ग्रामशूरेण प्रतिज्ञां पालयिष्यता
दुर्मुखो निहतश्शेते भीमेनारिनिबर्हणः
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः |
शूरस्यास्य रणे कृष्ण पश्याननमथेदृशम् ||
स कथं दुर्मुखोऽमित्रैः पांसून्ग्रसति मत्सुतः |
यस्याहवमुखे सौम्य स्थाता नैवोपलभ्यते ||
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्
चित्रसेनं हतं भूमौ शयानं मधुसूदन
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुर्भृताम्
तं चित्रमाल्याभरणं युवत्यश्शोककर्शिताः
क्रव्यादसङ्घसहिता रुदन्त्यः पर्युपासते
स्त्रीणां रुदितनिर्घोषं श्वापदानां च गर्जितम्
चित्ररूपमिदं कृष्ण विमिश्रं प्रतिभाति मे
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव
शरसङ्कृत्तवर्माणं वीरं विशसने हतम्
परिवार्यासते गृध्राः परिविंशाविविंशतिम्
प्रमथ्य समरे वीरः पाण्डवानामनीकिनीम्
आविश्य शयनं शेते पुनस्सत्पुरुषोचितम्
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्
अतीव सौम्यं वदनं कृष्ण पश्य विविंशतेः
एनं हि पर्युपातिष्ठन् बहुधा वरयोषितः
क्रीडन्तमिव गन्धर्वं देवकन्यास्सहस्रशः
हन्तारमरिसैन्यानां वीरं समितिशोभनम्
निबर्हणममित्राणां दुष्षहं प्रसहेत कः
दुष्षहस्यैतदाभाति शरीरं संवृतं शरैः
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः
शातकुम्भस्रजा भाति कवचेन च भास्वता
अग्निनेव गिरिश्श्वेतो गतासुरपि दुष्षहः