गान्धारी
पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान्
गदया भीमसेनेन भूयिष्ठं निहतान्रणे
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः
हतभर्त्र्यो रणे बालाः परिधावन्ति मे स्नुषाः
प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः
कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम्
गृध्रानुत्सारयन्त्यश्च गोमायूंश्च तथापराः
शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत
एषां या त्वनवद्याङ्गी करसम्मितमध्यमा
घोरमायोधनं दृष्ट्वा पतत्यसुखिता भुवि
दृष्ट्वा मे पार्थिवसुतामेनां लक्ष्मणमातरम्
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति
भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान्
मध्यमानामथ वृद्धानां नारीणां चापराजितः
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु
रथनीळेषु देहांश्च हतानां गजवाजिनाम्
आस्थितान् श्रममोहार्तान् स्थितान् पश्य महाबल
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्
स्वस्य बन्धोश्शिरः कृष्ण गृहीत्वा पश्य तिष्ठति
पूर्वजन्मकृतं पापं मन्ये नाल्पमिवानघ
एताभिरनवद्याभिर्मया चैवाल्पपुण्यया ||
तदिदं धर्मराजेन घातितं नो जनार्दन |
न हि नाशोऽस्ति वार्ष्णेय कर्मणोश्शुभपापयोः
प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः
कुलेषु जाता ह्रीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः
सारस्य इव पश्यन्त्यः पतिताः पश्य माधव
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम्
अनवद्यानि वक्त्राणि तपत्यंशुभिरंशुमान्
सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम्
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसन्निभान्
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्
शिरस्त्राणानि चैतानि पुत्राणां मे महीतले
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव
एष दु्श्शासनश्शेते शूरेणामित्रघातिना
पीतशोणितसर्वाङ्गो भीमसेनेन पातितः |SV-11-02-018-019e
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन
सहैव सहदेवेन नकुलेनार्जुनेन च
दासभार्याऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान्
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् ||
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय |
गान्धारराजं दुर्बुद्धिं मातुलं कलहप्रियम् ||
क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः |
न त्वं बुद्ध्यसि दुर्बुद्धे भीमसेनममर्षिणम्
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्
तानेष रभसः क्रूरो वाक्छल्यैरवपोथयत्
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव
एष दुश्शासनश्शेते विक्षिप्य विपुलौ भुजौ
निहतो भीमसेनेन सिंहेनेव महर्षभः
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः
दुश्शासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे