वैशम्पायनः
हतं दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता
सहसा न्यपतद्भूमौ छिन्नेव कदली वने
सा तु लब्ध्वा पुनस्सञ्ज्ञां विक्रुश्य च पुनःपुनः
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् |
परिष्वज्याथ गान्धारी कृपणं पर्यदेवयत् ||
हाहा पुत्रेति दुःखार्ता विललापाकुलेन्द्रिया
सुगूढजत्रुं विमलं हारनिष्कनिषेवितम्
वारिणा नेत्रजेनोरस् सिञ्चन्ती शोककर्शिता |
समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ||
गान्धारी
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां सङ्क्षये विभो |
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ||
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे
इत्युक्ता जानती सर्वमहं स्वं व्यसनागमम्
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः
यदा तु युध्यमानस्त्वं सम्प्रमुह्यसि पुत्रक
ध्रुवं शस्त्रजिताल्ँलोकान्प्राप्तोस्यमरवत्प्रभो |
इत्येवमब्रुवं पूर्वं नैनं शोचाम्यहं प्रभो ||
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्
अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्
शयानं वीरशयने पश्य माधव मे सुतम्
योऽयं मूर्धावसिक्तानामग्रे याति परन्तप
सोऽयं पांसुषु शेतेऽद्य पञ्च कालस्य पर्ययम्
एवं दुर्योधनो वीरो गतिं त्वसुलभां गतः
तथा ह्यभिमुखश्शेते शयने वीरसेविते
यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः
तं वीरशयने सुप्तं रमयन्त्यशिवाश्शिवाः
यं पुरा पर्युपासीना रमयन्ति महीक्षितः
महीतलस्थं निहतं गृध्रास्तं पर्युपासते
यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः
एष शेते महाबाहुर्बलवान्सत्यविक्रमः
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्
निहतं भीमसेनेन गदामालिङ्ग्य भारतम्
अक्षौहिणीर्महाबाहुर्दश चैकं च केशव
अनयद्यः पुरा सङ्ख्ये सेनया निधनं गतः
एष दुर्योधनश्शेते महेष्वासो महाबलः
शार्दूल इव सिंहेन भीमेन विनिपातितः
विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक्
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः
निस्सपत्ना मही यस्य त्रयोदश समास्स्थिता
स शेते निहतस्सङ्ख्ये पुत्रो मे पृथिवीपतिः
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रावशानुगाम्
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम्
तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम्
हीनां हस्तिगवाश्वैश्च किं नु जीवामि माधव
इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम
या इमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः
प्रकीर्णकेशां सुश्रोणिं दुर्योधनभुजाङ्कगाम्
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम्
नूनमेषा पुरा बाला जीवमाने महाभुजे
भुजमाश्रित्य रमते सुभुजस्य मनस्विनी
कथं नु शतधा नेदं हृदयं मम दीर्यते
पश्यन्त्या निहतं पुत्रं पौत्रेण सहितं रणे
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता
दुर्योधनं तु मृदुना पाणिना परिमार्जति
किं नु शोचति भर्तारमथपुत्रं मनस्विनी
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्षते
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा
पतत्युरसि वीरस्य कुरुराजस्य माधव
पुण्डरीकमिवाघ्राति पुण्डरीकान्तरप्रभा
मुखं प्रमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी
यदि वाप्यागमास्सन्ति यदि च श्रुतयस्तथा
ध्रुवं लोकमवाप्तोऽयं नृपो बाहुबलार्जितम्