वैशम्पायनः
एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा
गान्धारी च महाभागा समानव्रतचारिणी
उग्रेण तपसा युक्ता सततं सत्यवादिनी
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्
ददर्श सा बुद्धिमती दूरादेव यथाऽन्तिके
रणाजिरं तद्वीराणामद्भुतं रोमहर्षणम्
अस्थिकेशपरिस्तीर्णं रुधिरौघपरिप्लुतम्
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः
यूनां गजानामश्वानामावृतं रुधिराशनैः
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः
गजाश्वनरवीराणां निस्सत्वैरभिसंवृतम्
सृगालबलगोमायुकङ्ककाकनिषेवितम्
मोदनं पुरुषादानां रक्षसां कुलसङ्कुलम्
अशिवाभिश्शिवाभिश्च सेवितं गृध्रनादितम्
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्
कुरुस्त्रियस्समादाय जग्मुरायोधनं प्रति
समासाद्य कुरुक्षेत्रं तास्स्त्रियो निहतेश्वराः
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्सखीन्
क्रव्यादैर्भक्ष्यमाणांश्च कङ्कगोमायुवायसैः
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः
कुरर्य इव शोकार्ता विक्रोशन्त्यो निपेतिरे
अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः
शरीरेषु स्खलन्त्यश्च न्यपतंश्च परासुवत्
श्रान्तानां चाप्यनाथानां क्रन्दन्तीनां भृशं तथा
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्
दुःखाभिहतचित्ताभिस् समन्तादनुनादितम्
दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा
ततस्सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्
कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत्
गान्धारी
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः
प्रकीर्णकेश्यः क्रोशन्त्यः कुरर्य इव माधव
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्
पृथगेवानुपद्यन्ते पुत्रान्भ्रातॄन्पितॄन्पतीन्
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम्
शोभितं पुरुषव्याघ्रैर्कर्णभीष्माभिमन्युभिः
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः
अद्भुतैर्हस्तकेयूरैस्स्रग्भिश्च समलङ्कृतम्
वीरबाहुविसृष्टाभिश्शक्तिभिः परिघैरपि
खड्गैश्च विविधैस्तीक्ष्णैस्सशरैश्च शरासनैः
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिस्सहितैः क्वचित्
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्
एतदेवंविधं वीर सम्पश्यायोधनं महत्
त्वया तु साधितं कर्म पुष्कराक्ष महाद्युते
पश्यमाना च दह्यामि शोकेनाहं जनार्दन
पाञ्चालानां कुरूणां च विनाशं मधुसूदन
पञ्चानामिव भूतानामहं वधमचिन्तयम्
तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षितान्
विगृह्य कवचानुग्रान् भक्षयन्ति सहस्रशः
जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति
अवध्यकल्पान्निहतान् दृष्टाऽहं मधुसूदन
गृध्रकङ्कवलश्येनश्वसृगालसमावृतान्
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्
पश्येमान्पुरुषव्याघ्रान्संशान्तानिव पावकान्
शयनान्युचितास्सर्वे मृदूनि विमलानि च
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते
वन्दिभिश्चाधिकं काले स्तुवद्भिरभिनन्दिताः
शिवानामशिवा घोराश् शृण्वन्ति विविधा गिरः
ये पुरा शेरते वीराश् शयनेषु यशस्विनः
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते
तेषामाभरणान्येते गृध्रगोमायुवायसाः
आक्षिपन्ति शिवा दृष्ट्वा विनदन्ति पुनः पुनः
चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः
युद्धाभिपातिनश्शूरा जीवन्त इव बिभ्रति
आपीतवर्णा बहवः क्रव्यादैरभिघातिताः
ऋषभप्रतिरूपाक्षाश् शेरते च सहस्रशः
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः
शेरतेऽभिमुखाश्शूरा दयिता इव योषितः
बिभ्रतः कवचानन्ये विमलान्यायुधानि च
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्
शातकुम्भस्रजश्चित्रा विप्रकीर्णास्सहस्रशः
एते गोमायवोऽभीता निहतानां यशस्विनाम्
कण्ठान्तरगतान् दिव्यानाक्षिपन्ति महामणीन्
सर्वेष्वपररात्रेषु यानवन्दन्त वन्दिनः
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः
तानद्य परिदेवन्ति दुःखिताः परमाङ्गनाः
कृपणा वृष्णिशार्दूल दुःखशोकान्विता भृशम्
नीलोत्पलवनानीव विभान्ति रुचिराणि वै
मुखानि परमस्त्रीणां परिशुष्काणि केशव
रुदित्वा विरता ह्येता ध्यायन्त्यस्सपरिक्लमाः
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः
एतान्यादित्यवर्णानि पुण्डरीकनिभानि च
पश्य रोदनताम्राणि वदनानीह योषिताम्
आसामपरिपूर्णार्थं निशम्य परिदेवितम्
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च
विस्पन्दमाना दुःखेन जीवितं नाजहुस्स्त्रियः
बह्वदृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः
शिरोभिः पतितैर्हस्तैस् सर्वाङ्गैः खण्डशः कृतैः
इतरेतरसङ्क्रान्तैरास्तीर्णा भाति मेदिनी
विशिरस्कानधःकायान्दृष्ट्वा ह्येताननिन्दिताः
मुह्यन्त्यनुचिता नार्यो वीक्षमाणा विचेतसः
अपश्यन्त्योऽपरं तत्र नेदमस्येति दुःखिताः
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्
सन्दधत्योऽसुखाविष्टा मूर्छन्तीह पुनःपुनः
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः
दृष्ट्वाऽपि न विजानन्ति भर्तॄन्भारतयोषितः
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन
प्रेक्ष्य भ्रातॄन्पितॄन् वाऽपि पतींश्च निहतान्परैः
बाहुभिः कार्मुकैः खड्गैश् शिरोभिश्च सकुण्डलैः
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा ||
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः
भ्रातृभिः पितृभिः पुत्रैरुपास्तीर्णां वसुन्धराम्
यूथानीव किशोरीणां सुकेशीनां जनार्दन
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः
नातो दुःखतरं किंस्वित् केशव प्रतिभाति मे
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः
नूनं वै चरितं पापं मया पूर्वेषु जन्मसु
यान् पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव
वैशम्पायनः
एवमुक्त्वा विलपति समाभाष्य जनार्दनम्
गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम्