वैशम्पायनः
तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता
तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत्
युधिष्ठिरः
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः
शापार्हः पृथिवीनाशे हेतुभूतश्शपस्व माम्
नहि मे जीवितेनार्थो न राज्येन सुखेन वा
तादृशान्सुहृदो हत्वा सुमूढस्य सुतद्रुहः
वैशम्पायनः
तमेवंवादिनं भीतं सन्निकर्षागतं तदा
नोवाच किञ्चिद्गान्धारी निश्श्वासपरमा नृप
तस्यावनतदेहस्य पादयोर्निपतिष्यतः
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा
ततस्स कुनखीभूतो दर्शनीयनखो नृपः |
तं दृष्ट्वाऽथार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत
गान्धारी विगतक्रोधा सान्त्वयामास मातृवत्
ते पाण्डवात्वनुज्ञाता मातरं वीतमत्सराः
अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः
चिरस्य दृष्ट्वा पुत्रांस्तान् पुत्राधिभिरभिप्लुता
बाष्पमाहारयामास वस्त्रेणावृत्य वै मुखम्
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान्
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः
अन्वशोचत दुःखार्तां द्रौपदीं निहतात्मजाम् ||
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि
पाञ्चाली
आर्ये पौत्रा हतास्सर्वे सौभद्रसहिता गताः
न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टामनिन्दिते
किं नु राज्येन मे कार्यं विहीनायास्सुतैर्वरैः
वैशम्पायनः
तां समाश्वासयामास पृथा पृथुललोचनाम्
उत्थाप्याङ्केन रुदती रुदतीं शोकलालसाम्
तयैव सहिता तत्र पुत्रैरनुगता पृथा
अभ्यगच्छत गान्धारीमार्तामार्तस्वरा स्वयम्
तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम् ||
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् |
मन्ये लोकविनाशोऽयं कालपर्यायचोदितः
अवश्यभावी सम्प्राप्तस् स्वभावाद्रोमहर्षणः
इदं तु समनुप्राप्तं विदुरस्य वचो महत्
असिद्धानुनये कृष्णे यदुवाच महाद्युतिः
अस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः
यथैव त्वं तथैवाहं को मामाश्वासयिष्यति
ममैव चापराधेन कुलमेद्विनाशितम्