वैशम्पायनः
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्
गान्धारीं प्रत्युवाचेदं वचस्सानुनयं तदा
भीमः
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि
न हि युद्धेन पुत्रस्ते धर्मेण सुमहाबलः
शक्यः केनचिद्धर्तुं तस्माद्विषममाचरम्
अधर्मेण जितः पूर्वं तेनापि च युधिष्ठिरः
निकृताश्च सदैव स्म ततो विषममाचरम्
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्
न त्यक्ष्यति हृतं राज्यमिति चैव कृतं मया |
मां हत्वा न हरेद्राज्यमिति चैतत् कृतं मया ||
एकपत्नीं च पाञ्चालीमेकवस्त्रां रजस्वलाम्
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव
सुयोधनमसंहृत्य न शक्या भूस्ससागरा
केवलं भोक्तुमस्माभिरिति चैतत्कृतं मया
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुदाचरत्
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्
तत्रैव वध्यस्सोऽस्माकं दुराचारोऽम्ब ते सुतः
धर्मराजाज्ञया त्वेवं स्थितास्स्म समये पुरा
वैरं सन्धुक्षितं राज्ञि पुत्रेण तव यन्महत्
क्लेशिताश्च वनेऽत्यर्थं तस्मादेतत्कृतं मया
वैरस्यास्मि गतः पारं हत्वा दुर्योधनं रणे
राज्यं युधिष्ठिरे प्राप्ते वयं विगतमन्यवः
गान्धारी
न तस्यैवं वधस्तात यं प्रशंससि मे सुतम्
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि
हताश्वे नकुले यत्तद् वृषसेनेन भारत
अपिबश्शोणितं सङ्ख्ये दुश्शासनशरीरजम्
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्
क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर
अन्यस्यापि न पातव्यं रुधिरं किं पुनस्स्वकम्
यथैवात्मा तथा भ्राता न विशेषोऽस्ति कश्चन
भीमः
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे
शत्रूणां तु प्रहृष्टानां त्रासस्सञ्जनितो मया
स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति
रुधिरं नातिचक्राम दन्तोष्ठान्मेऽम्ब मा शुचः
वैवस्वतो हि तद्वेद यथावत्कुलनन्दिनि
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनघे
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते
क्रोधाद्यदब्रवं चाहं तच्च मे क्षन्तुमर्हसि
क्षत्रधर्मच्युतो राज्ञि भवेयं शाश्वतीस्समाः
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्
अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु
न मामर्हसि कल्याणि दोषेण परिशङ्कितुम्
गान्धारी
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः
कस्मान्नाशेषयः कञ्चिद्येनाल्पमपराधितम्
सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै
शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च
न मे दुःखं भवेदद्य यदि त्वं धर्ममाचरेः