वैशम्पायनः
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः
अभ्ययुर्भ्रातरस्सर्वे गान्धारीं सहकेशवाः
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम्
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति
ऋषिर्गन्धवतीपुत्रः प्रागेव समपद्यत
स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतश्शुचिः
तं देशमुपसम्पेदे पाराशर्यो मनोजवः
दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च
सर्वं प्राणभृतां भावं सततं समबुध्यत
स स्नुषामब्रवीत्काले कल्याणानि महातपाः
शापकालमवाक्षिप्य शमकालमुदीरयन्
व्यासः
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि
रजो निगृह्यतां चैव शृणु चेदं वचो मम
पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः
सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः
वाक्ये व्यतीते मा क्रोधे मनः कुरु यशस्विनि
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम्
विग्रहे तुमुले राज्ञां गत्वा परमसंशयम्
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः
क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम्
अधर्मं जहि धर्मज्ञे यतो धर्मस्ततो जयः
सा त्वं धर्मं परित्यज्य वाचा चोक्त्वा मनस्विनि
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते
गान्धारी
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया
तथैव धृतराष्ट्रेण रक्षितव्या मया यथा
दुःशासनापराधेन शकुनेस्सौबलस्य च
कर्णदुर्योधनाभ्यां च वृत्तोऽयं कुरुसङ्क्षयः
नापराध्नोति बीभत्सुर्न च भीमो वृकोदरः
नकुलस्सहदेवश्च नैव जातु युधिष्ठिरः
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम्
निहतास्तैर्हताश्चान्ये तत्र नास्त्यप्रियं मम
यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः
दुर्योधनं समाहूय गदायुद्धे महामनाः
शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे
अधो नाभेः प्रहृतवांस्तन्मे कोपयतीव हि
कथं हि धर्मं धर्मज्ञास् समुद्दिष्टं महात्मभिः
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चन