वैशम्पायनः
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः
श्रीभगवान्
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च
श्रुतानि च पुराणानि राजधर्माश्च केवलाः
एवं विद्वान्महाप्राज्ञस् समर्थस्सन्बलाबले
आत्मापराधे कस्मात्त्वं कुरुषे कोपमीदृशम्
उक्तवांस्ते तथैवाहं भीष्मद्रोणौ च भारत
विदुरस्सञ्जयश्चैव वाक्यं राजन्नधः कृथाः
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा
पाण्डवानधिकाञ्जानन्बले शौर्ये च भारत
राजा हि यस्स्थिरः प्राज्ञस् स्वयं दोषानवेक्षते
देशकालविभागं च परं श्रेयस्स विन्दति
उच्यमानं यश्श्रेयो गृह्णीते वै यथातथम्
आपदं समनुप्राप्य सोऽभ्येति विलयं किल
अतोऽन्यवृत्तमात्मानं समवेक्षस्व भारत
राजंस्त्वमविधेयात्मा दुर्योधनवशे स्थितः
आत्मापराधादापन्नस्तत्किं भीमजिघांसया
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम्
स हतो भीमसेनेन वैरं प्रतिचिकीर्षता
आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः
यदनागसि पाण्डूनां परित्यागः परन्तप
वैशम्पायनः
एवमुक्तस्स कृष्णेन नृपस्सत्यं जनाधिप
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः
धृतराष्ट्रः
एवमेतन्महाभाग यथा वदसि माधव
पुत्रस्नेहस्तु धर्मात्मन्धर्मान्मां समचालयत्
दिष्ट्या स पुरुषव्याघ्रो बलवान्सत्यविक्रमः
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम
इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः
मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव
वैशम्पायनः
हतेषु पार्थिवेन्द्रेषु पुत्रेषु च हतेषु च
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते
ततस्स भीमं च धनञ्जयं च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ
पस्पर्श गात्रैः प्ररुदन्सुगात्रमाश्वास्य कल्याणमुवाच चैनान्