वैशम्पायनः
हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात्
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः
शोचमानो महाराज भ्रातृभिस्सहितस्ततः
अन्वीयमानो वीरेण दाशार्हेण महात्मना
युयुधानेन च तथा तथैव च युयुत्सुना
तमन्वयात्सुदुःखार्ता द्रौपदी शोककर्शिता
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः
सङ्ग्राममनु वृन्दानि स्त्रीणां भरतसत्तम
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह
ताभिः परिवृतो राजा रुदन्तीभिस्समन्ततः
ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवन्तीभिः प्रियाप्रिये
स्त्रियः
धर्मस्ते क्व नु धर्मज्ञ क्व नु साऽद्यानृशंसता
यथाऽवधीः पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्
मनस्तेऽभून्महाराज हत्वा चापि जयद्रथम्
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत
वैशम्पायनः
अतीत्य ता महाराज क्रोशन्ती कुररीरिव
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः
ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः
तमात्मजान्तकरणं पिता पुत्रवधार्दितः
अप्रीयमाणश्शोकार्तं पाण्डवं परिषस्वजे
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः
स कोपपावकस्तस्य शोकवायुसमीरितः
भीमसेनमयं दावं दिधक्षुरिव दृश्यते
तस्य सङ्कल्पमाज्ञाय भीमं प्रत्यशुभं हरिः
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्
प्रागेव तु महाबाहुर्बुद्ध्वा तस्येङ्गितं हरिः
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः
उपगृह्यैव पाणिभ्यां राजा स्तम्भमयोमयम्
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्
नागायुतसमप्राणस् स राजा भीममायसम्
भङ्क्त्वा विमथितोरस्कस् सुस्राव रुधिरं मुखात्
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः
प्रत्यगृह्णीत तं विद्वान्सूतो गावल्गणिस्तदा
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्नपि
हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः
हाहा भीमेति चुक्रोश भूयश्शोकसमन्वितः
स विदित्वा गतक्रोधं भीमसेनवधार्दितम्
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्
श्रीभगवान्
मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः
आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन
यस्सहेत महाबाहो तव निग्रहणं नरः
यथा हि नान्तकं प्राप्य जीवन्मुच्येत कश्चन
एवं बाह्वन्तरं प्राप्य न जीवेदिह कश्चन
तस्मात्पुत्रेण ते या सा प्रतिमा कारिताऽऽयसी
भीमस्य सेयं कौरव्य तवैवोपहृता मया
पुत्रशोकाभिसन्तापाद्धर्मादपहृतं मनः
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि
न च ते तत् क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन
तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं विभो
अनुमन्यस्व राजेन्द्र मा च शोके मनः कृथाः