वैशम्पायनः
क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान्
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्
अश्रुकण्ठा विनिश्श्वस्य रुदन्त इदमब्रुवन्
पुत्रादयः
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्
गतस्सानुचरो राजा शक्रलोकं महीरथः
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ
वैशम्पायनः
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्
कृपः
अभीता युध्यमानास्ते घ्नन्तश्शत्रुगणान्बहून्
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः
ध्रुवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान्
भास्वरं देहमास्थाय विहरन्त्यमरा इव |
सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि ||
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः
एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम्
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि
न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम्
पाञ्चाला निहतास्सर्वे धृष्टद्युम्नपुरोगमाः
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते
प्राद्रवाम न हि स्थातुं रणे शक्ष्यामहे त्रयः
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः
अमर्षवशमापन्ना वैरं प्रतिचिकीर्षवः
ते हतानात्मजान् श्रुत्वा प्रमत्तान् पुरुषर्षभाः
अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः
पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे
अनुजानीहि मां राज्ञि मा च शोके मनः कृथाः
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्
दिष्टान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम्
वैशम्पायनः
इत्येवमुक्त्वा राजानं कृत्वा चापि प्रदक्षिणम्
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत
अन्वीक्षमाणं राजानं धृतराष्ट्रं मनीषिणम्
गङ्गामनु महात्मानस् तूर्णमश्वानचोदयन्
अपक्रम्य च ते सर्वे त्रयो राजन् महारथाः
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा
जगाम हास्तिनपुरं कृपश्शारद्वतस्तदा
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्
समेत्य वीरं राजानं तदा त्वनुदिते रवौ
विप्रजग्मुर्महाराज यथेष्टकमरिन्दमाः