जनमेजयः
गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि
वैशम्पायनः
एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत
धृतराष्ट्रः
क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः
कुन्तीं चैव तथा क्षत्तस् समानय ममान्तिकम्
वैशम्पायनः
एवमुक्त्वा तु धर्मात्मा विदुरं धर्मवित्तमम्
शोकविप्रहतज्ञानो यानमेवान्वरोहत
गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता
सह कुन्त्या यतो राजा सह स्त्रीभिस्समाद्रवत्
तास्समासाद्य राजानं भृशं शोकसमन्विताः
आमन्त्र्यान्योन्यमायस्ता भृशं वै चुक्रुशुस्तथा
तास्समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरस्स्वयम्
अश्रुकण्ठीस्समारोप्य ततस्ता निर्ययौ पुरात्
ततः प्रणादस्सञ्जज्ञे सर्वेषु कुरुवेश्मसु
आकुमारं पुरं तच्चाप्यभवच्छोककर्शितम्
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि
हतेश्वरास्ता ददृशुश् समवेताः पृथग्जनाः
प्रकीर्य केशानसितान् भूषणान्यवमुच्य च
एकवस्त्रधरा नार्यः परिपेतुरनाथवत्
श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन्
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः
शोकार्तान्यरुदन् घोरं किशोरीणामिवाङ्गनाः
प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि
दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम्
विलपन्त्यो नदन्त्यश्च धावमाना इतस्ततः
शोकेन विहतज्ञानाः कर्तव्यं न प्रजज्ञिरे
व्रीडां जग्मुः पुरा यास्स्म सखीनामपि योषितः
निर्लज्जास्तास्तु राजेन्द्र श्वश्रूणामपि सन्निधौ
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः
ताश्शोकविह्वला राजन्नावैक्षन्त परस्परम्
ताभिः परिवृतो राजा रुदतीभिस्सहस्रशः
निर्ययौ नगरात्तूर्णं दीनस्त्वायोधनं प्रति
शिल्पिनो वणिजो वैश्यास् सर्वकर्मोपजीविनः
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः
तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव
अभावस्योदयं प्राप्त इति भूतानि मेनिरे
भृशमुद्विग्नमनसस्ते पौरा जनसङ्क्षये
प्राक्रोशन्त महाराजं स्वनुरक्तास्तथा भृशम्