वैशम्पायनः
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्च्छितः
तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य बान्धवाः
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा |
सञ्जयस्सुहृदश्चान्ये तथा ये चास्य सम्मताः ||
जलेन सुखशीतेन तालवृन्तैश्च भारत |
पस्पृशुश्शनकैर्गात्रं वीजमानाश्च यत्नतः ||
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम्
अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः
धृतराष्ट्रः
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्
यतो मूलानि दुःखानि सम्भवन्ति पुनःपुनः
मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते
तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात्
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ||
वैशम्पायनः
इत्युक्त्वा च महात्मानं पितरं ब्रह्मवित्तमम् |
धृतराष्ट्रोऽभवन्मूढश् शोकं च परमं गतः
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत्
व्यासः
धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक ||
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो |
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप
अनित्यतां हि भूतानां विजानासि न संशयः
अध्रुवे जीवलोके च स्थाने वा शाश्वते सति
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः
अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप
कस्माच्छोचसि तान् शूरान् गतान् परमिकां गतिम्
जानता च महाबाहो विदुरेण महात्मना
यतितं सर्वयत्नेन शमं प्रति नरेश्वर
न च दैवकृतो मार्गश् शक्यो भूतेन केनचित्
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः
देवतानां हि यत्कार्यं मया प्रत्यक्षतश्श्रुतम्
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव
पुराऽहं स्वेच्छया यातस् सभामैन्द्रीं जितक्लमः
अपश्यं तत्र च सदा समवेतान्दिवौकसः
नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान् ||
तत्रापि च मया दृष्टा पृथिवी पृथिवीपते |
कार्यार्थमुपसम्पन्ना देवतानां समीपतः
उपगम्य तदा धात्री देवानाह समागतान्
पृथिवी
यत्कार्यं मम युष्माभिर्ब्रह्मणस्सदने तदा
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्
व्यासः
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः
उवाच प्रहसन् वाक्यं प्रभुस्तां देवसंसदि
श्रीभगवन्
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठश्शतस्य वै
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति |
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ||
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः |
अन्योन्यं घातयिष्यन्ति दृढैश् शस्त्रैः प्रहारिणः ||
ततस्ते भविता देवि भारस्य युधि नाशनम् |
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ||
व्यासः
स एष ते सुतो राजन् कालस्संहारकारणात् |
कलेरंशस्समुत्पन्नो गान्धार्या जठरे नृप ||
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः
दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः
शकुनिर्मातुलश्चैव कर्णश्च परमस्सखा
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः
एतमर्थं महाबाहो नारदो वेद तत्त्वतः
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते
मा तान् शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्
न हि ते पाण्डवास्स्वल्पमपराध्यन्ति भारत
पुत्रास्तव दुरात्मानो यैरियं घातिता मही
नारदेन समाख्यातं पूर्वमेव न संशयः
युधिष्ठिरस्य समितौ राजसूये निवेदितम्
पाण्डवाः कौरवाश्चैव समासाद्य परस्परम्
न भविष्यन्ति राजेन्द्र यत्ते कृत्यं तदाचर
नारदस्य वचश्श्रुत्वा तथाऽकुर्वत पाण्डवाः
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम्
कथं ते शोकनाशस्स्यात्प्राणेषु च दया प्रभो
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्
एष चार्थो महाराज पूर्वमेव मया श्रुतः
कथितो धर्मराजस्य राजसूये कुरूत्तम
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते
अविग्रहे कौरवाणां दैवं तु बलवत्तरम्
अनतिक्रमणीयो हि विधी राजन् कथञ्चन
कृतान्तस्य हि भूतेन चरेण स्थावरेण च
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत
मुह्यते प्राणिनां ज्ञात्वा गतिमागतिमेव च
त्वां तु शोकेन सन्तप्तं मुह्यमानमचेतनम्
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि
स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति
मम चैव नियोगेन विधेश्चाप्यनिवर्तनात्
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति
धर्मश्च सुमहांस्तात तप्तस्या तपसश्चिरात्
पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा
प्रज्ञाम्भसा महाराज निर्वापय सदा सता
वैशम्पायनः
एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः
मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः
इदं तु वचनं श्रुत्वा तव दैवनियोगजम्
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुम्
एतच्छ्रुत्वा तु वचनं व्यासस्सत्यवतीसुतः
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत