धृतराष्ट्रः
अहो खलु महद्दुःखं कृच्छ्रं वासं वसत्यसौ
कथं तत्र रतिस्तस्य तुष्टिर्वा वदतां वर
स देशः क्व नु यत्रासौ वसते धर्मसङ्कटे
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्
एतद्वै सर्वमाचक्ष्व साधु चेष्टामहे तथा
तथा कृपा मे महती जाता ह्युद्धरणेन च
विदुरः
उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम्
सुगतिं विन्दते येन परलोकेषु मानवः
यत्तदुच्येत कान्तारं महत् संसार एव सः
वनं दुर्गं हि यत्वेतत्संसारगहनं हि तत् |
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः
या सा नारी बृहत्काया अध्यतिष्ठति तत्र वै
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम्
स यस्तु कूपो नृपते स तु देहश्शरीरिणाम् ||
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः
अन्तकस्सर्वभूतानां देहिनां प्राणहार्यसौ
कूपमध्ये च या जाता वल्ली यत्र स मानवः
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम्
स यस्तु कूपपीनाहे वृक्षं विपरिसर्पति
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरस्स्मृतः |
षण्मुखा ऋतवो मासाः पादा द्वादश कीर्तिताः ||
ये तु वृक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा |
रात्र्यहानि तु तान्प्राहुर्भूतानां परिचिन्तकाः ||
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः
यास्तु वा बहुशो धारास् स्रवन्ति बहुविस्तरम्
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः
एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः
येन संसारचक्रस्य पाशं छिन्दन्ति वै बुधाः