धृतराष्ट्रः
यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते
एतद्विस्तरतस्सर्वं बुद्धिमार्गं प्रशंस मे
विदुरः
अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे
यथा संसारगहनं वदन्ति परमर्षयः
कश्चिन्महति संसारे वर्तमानो द्विजः किल |
वनं दुर्गमनुप्राप्तो महत् क्रव्यादसङ्कुलम्
सिंहव्याघ्रगजाकारैरतिघोरमहाशनैः
समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम् ||
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् |
अत्युच्छ्रयाश्च रोमाणां विक्रियाश्च भवन्ति वै ||
स तद्वनं व्यतिसरन् नृप धावन्नितस्ततः |
वीक्षमाणो दिशस्सर्वाश् शरणं क भवेदिति ||
स तेषां छिद्रमन्विच्छन् प्रद्रुतो भयपीडितः
न च निर्याति वै दूरं न च तैर्विप्रयुज्यते
अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम्
बाहुभ्यां सम्परिष्वक्तस् स्त्रिया परमघोरया
पञ्चशीर्षधरैर्नागैश् शैलैरिव समुन्नतैः
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्
वनमध्ये च तत्राभूदुदपानस्समावृतः
वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः
पपात स द्विजस्तत्र निगूढे सलिलाशये
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले
पनसस्य यथा जातं वृन्तबद्धं महाफलम्
स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधश्शिराः
तथा तत्रैव चायातो दन्ती दलितपर्वतः
कूपपीनाहवेलायामपश्यत महागजम्
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्
तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः
नानावर्णा मधुकरा घोररूपा भयावहाः |
आसते मधु संवृत्य पूर्वमेव निकेतजाः ||
भूयो भूयस्समीहन्ते मधूनि भरतर्षभ |
स्वादूनि यानि भूतानां यैर्बालो न वितृप्यते ||
तेषां मधूनां विविधा धारा प्रस्रवते सदा |
तां लम्बमानस्स पुमान्धारां पिबति सर्वदा ||
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे |
अभीप्सति च तां नित्यमतृप्तश्च पुनः पुनः ||
न चास्य जीविते राजन्निर्वेदस्समजायत |
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता ||
कृष्णाश्श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः |
व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रिया ||
कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च |
वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम् ||
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् |
एवं संवसते तत्र क्षिप्तस्संसारसागरे
न चैव जीविताशायां निर्वेदमुपगच्छति