धृतराष्ट्रः
कथं संसारगहनं विज्ञेयं वदतां वर
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छते
विदुरः
जन्मप्रभृति भूतानां क्रियास्सर्वास्तु लक्षयेत्
पूर्वमेवेह कलिलं वसते किञ्चिदन्तरम्
ततस्स पञ्चमेऽतीते मांसत्रयमकल्पयत्
ततस्सर्वाङ्गसम्पूर्णो गर्भो मासे च जायते
अमेध्यमध्ये वसति मांसशोणितलेपने
ततस्तु वायुवेगेन ह्यूर्ध्वपादो ह्यधोमुखः
योनिद्वारमुपागम्य बहून् क्लेशान् समृच्छति
योनिसम्पीडनाच्चैव पूर्वकर्मपदानुगः
तस्मान्मुक्तस्स संसारादन्यान् पश्यत्युपद्रवान्
ग्रहास्तमनुसर्पन्ति सारमेया इवामिषम्
ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः
बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम्
व्यसनान्यनुवर्तन्ते विविधानि नराधिप
मथ्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः
अयं न बुध्यते तावद्यमलोकादिहागमे |
यमदूतैर्विकृष्टश्च मृत्युं कालेन गच्छति
वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै
भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः
तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः ||
अहो विनिकृतो लोको लोभेन च वशीकृतः
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते
कुलीनत्वे च रमते दुष्कुलीनान् विकुत्सयन्
धनदर्पेण दृप्तश्च दारिद्र्यं परिकुत्सयन्
मूर्खानिति परानाह नात्मानं समवेक्षते
दीक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति
यदा प्राज्ञाश्च मूर्खाश्च धनवन्तोऽथ निर्धनाः
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः |
सर्वे पितृवनं प्राप्तास् स्वपन्ति विगतत्वचः ||
निर्मांसैरस्थिभूयिष्ठैर् गात्रैश्च स्नायुबन्धनैः |
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः ||
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् |
यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले ||
तस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः
प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतीमिमाम्
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम्
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते
स वै मोक्षयते चैव पन्थानं मनुजाधिप