धृतराष्ट्रः
सुभाषितैर्महाप्राज्ञ शोको मेऽपगतः प्रभो
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः
अनिष्टानां च संसर्गादिष्टानां च निवर्तनात्
कथं वै मानसं दुःखं विप्रयुज्यन्ति पण्डिताः
विदुरः
यतो यतो मनो दुःखात् सुखाद्वा विप्रमुच्यते
ततस्ततश्शमं लब्ध्वा सुगतिं विन्दते बुधः
अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ
कदलीसन्निभो लोकस्सारो ह्यस्य न विद्यते
गृहाण्येव हि मर्त्यानामाहुर्देहान् हि पण्डिताः
कालेन विनियुज्यन्ते सत्वमेषां तु शोभनम्
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वाऽथ पूरुषः
अन्यद्रोचयते वस्त्रमेवं देहश्शरीरिणाम्
वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम्
प्राप्नुवन्ति हि भूतानि स्वकृतेनैव कर्मणा
कर्मणा प्राप्यते स्वर्गस्सुखं दुःखं च भारत
ततो वहति तं भारमवशस्स्ववशोऽपि वा
किञ्चित् प्रक्रियमाणं वा कृतमात्रमथापि वा |
भिन्नं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा ||
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा |
अवतार्यन्तमापाकादुद्धृतं वाऽपि भारत
अथवा परिभज्यन्ते एवं देहश्शरीरिणाम्
गर्भस्थो वा प्रसूतो वा अथवा दशरात्रकः
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा
संवत्सरगतो वापि द्विसंवत्सर एव वा
यौवनस्थो विमध्यस्थो वृद्धो वाऽपि विपद्यते
प्राक्कर्मभिस्तु भूतानि विपद्यन्ते भवन्ति च
एवं संवर्धिते लोके किमर्थमनुतप्यसे
यथा तु सलिले राजन् क्रीडार्थमनुसञ्चरन्
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप
एवं संसारगहनाद् उन्मज्जननिमज्जनात्
कर्मयोगेन बध्यन्ते क्लिश्यन्ते स्वल्पबुद्धयः
ये तु प्राज्ञास्स्थिता मध्ये संसारान्तगतैषिणः
समागमज्ञा भूतानां ते यान्ति परमां गतिम्