वैशम्पायनः
ततोऽमृतरसैर्वाक्यैर् ह्लादयन् पुरुषर्षभः
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्
विदुरः
उत्तिष्ठ राजन् किं शेषे धारयात्मानमात्मना
एषा वै सर्वसत्वानां लोकेश्वर परागतिः
सर्वे क्षयान्ता निचयाः पतनान्तास्समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
यदा शूरं च भीरुं च यमः कर्षति भारत
तत् किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ
अयुध्यमानो म्रियते युध्यमानश्च जीवति
कालं प्राप्य महाराज न कश्चिदतिवर्तते
अभावादीनि भूतानि भावमध्यानि भारत
अभावनिधनान्येव तत्र का परिदेवना
न शोचन् मतमन्वेति न शोचन् म्रियते नरः
एवं संसाधिते लोके किमर्थमनुशोचसि
कालः कर्षति भूतानि सर्वाणि विविधान्युत
यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः
तथा कालवशं यान्ति भूतानि भरतर्षभ
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना
न चाप्येतान् मृतान् युद्धे राजन् शोचितुमर्हसि
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः
सर्वे चाभिमुखाः क्षीणास् तत्र का परिदेवना
अदर्शनादापतिताः पुनश्चादर्शनं गताः
न ते तव न तेषां त्वं तत्र का परिदेवना
हतो हि लभते स्वर्गं जित्वा वा लभते यशः
उभयं नो बहुगुणं नास्ति निष्फलता रणे
तेषां कामदुघाल्ँलोकानिन्द्रः सङ्कल्पयिष्यति
इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ
न यज्ञैर्दक्षिणावद्भिर् न तपोभिर्न विद्यया
स्वर्गं याति तथा मर्त्यो यथा शूरो रणे हताः
शरीराग्निषु ते शूरा जुहुवुर्वै शराहताः
हूयमानाञ्शरांश्चैव जहुस्तेजस्विनो मिथः
एतद्राजंस्तदाऽचक्षे स्वर्गं पन्थानमुत्तमम्
न युद्धादधिकं किञ्चित् क्षत्रियस्येह विद्यते
क्षत्रियास्ते महात्मानश्शूरास्समितिशोभनाः
अमृतं परमं प्राप्ता न शोच्यास्सर्व एव हि
आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि
मातापितृसहस्राणि पुत्रदारशतानि च
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्
शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम
न मध्यस्थः क्वचित् कालस् सर्वं कालः प्रकर्षति
कालः पचति भूतानि कालः संहरते प्रजाः
कालस्सुप्तेषु जागर्ति कालो हि दुरतिक्रमः
अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः
आरोग्यं प्रियसंवासो गृद्ध्येन्न ह्येषु पण्डितः
न हि जानपदं दुःखमेकश्शोचितुमर्हसि
अप्यभावेन युज्येत तच्चास्य न निवर्तते
अशोचन् प्रतिकुर्वीत यदि पश्येत् पराक्रमम्
भैषज्यमेतद्दुःखस्य यदेवं नानुचिन्तयेत्
चिन्त्यमानं हि नापैति भूयश्चापि विवर्धते
अनिष्टसम्प्रयोगाच्च विप्रयोगात् प्रियस्य च
अलब्धलाभाः क्लिश्यन्ते लब्धलाभानुपातिनः ||
मानुषा मानुषैर्दुःखैर् युज्यन्ते येऽल्पबुद्धयः |
नार्थो न धर्मो न सुखं यदेतदनुशोचसि
तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते
अन्योन्यबाधनावस्थां प्राप्य वैषयिका नराः
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतज्ज्ञानस्य सामर्थ्यं न बालैस्समतामियात्
शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्
यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम्
तस्यां तस्यामवस्थायां तत्तत् फलमवाप्नुयात्